2023-03-21 13:10:29 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
गुणविदस्तत्त्वानीति च तद्विदः । पादा इति पादविदो विषया इति तद्विदः । लोका
इति लोकविदो देवा इति च तद्विदः । वेदा इति वेदविदो यज्ञा इति च तद्विदः ।
भोक्तेति च भोक्तृविदो भोज्यमिति च तद्विदः । सूक्ष्म इति सूक्ष्मविदः स्थूल इति च
तद्विदः । मूर्त इति मूर्तविदोऽमूर्त इति तद्विदः । काल इति कालविदो दिश इति च
तद्विदः। वादा इति वादविदो भुवनानीति तद्विदः । मन इति मनोविदो । बुद्धिरिति
च तद्विदः । चित्तमिति चित्तविदो धर्माधर्मौ च तद्विदः । पञ्चविंशक इत्येके षड्विंश
इति चापरे । एकत्रिंशक इत्याहुरनन्त इति चापरे । लोकाँल्लोकविदः प्राहुराश्रमा इति
तद्विदः । स्त्रीपुन्नपुंसकं लैङ्गाः परापरमथापरे । सृष्टिरिति सृष्टिविदो लय इति च तद्विदः ।
स्थितिरिति स्थितिविदः सर्वे चेह तु सर्वदा (मा०उ०का० २।२०-२८) । स्वप्नमाये
यथादृष्टे गन्धर्वनगरं यथा । तथा विश्वमिदं दृष्टं वेदान्तेषु विचक्षणैः (मा०
उ० का० २।३१) ।
१५६
कल्पितसंवृत्तिः
अपरमार्थज्ञानम् । यथा - कल्पिता च सा तया योऽस्ति
परमार्थेन नास्त्यसौ न विद्यते (मा० उ० गौ० पा० का० ४।७४ शा० भा० ) ।
कल्मषम्
पापादिसंसारकारणदोषः । यथा - ज्ञाननिर्धूतकल्पषा ज्ञानेन
नाशितः कल्मषः पापादिसंसारकारणदोषो येषां ते ज्ञाननिर्धूतकल्पषा यतय
इत्यर्थः (गी० ५।१७ शा० भा० ) । यथा च - ज्ञानेन निर्धूतं समूलमुन्मूलितं
पुनर्देहसम्बन्धकारणं पुण्यपापात्मकं कर्म येषां ते तथा (तत्रैव म० सू० ) ।
कवि:
१. (क) मेधावी । यथा - कवयो मेधाविनोऽप्यत्र अस्मिन् विषये
मोहिता मोहं गताः (गी० ४।१६ शा० भा०) । (ख) सर्वदृक् । यथा - कविः क्रान्तदर्शी
सर्वदृक् (ई० ८ शा० भा० ) ।
-
कामः
१. (क) मनः । यथा - एष प्रसिद्धः कामः सोऽकामयत जाया मे
स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीतेति श्रुतिरिदं मे भूयादिदं भूयात् इति
तीव्राभिलाषहेतुभूतश्चेतसोऽनवस्थितत्वापादको वृत्तिविशेषः । स च चेतोरूप एव ।
कामः संकल्प इत्युपक्रम्य एतत् सर्वं मनः इत्युपसंहारात् । स एष कामः केनचित्
निमित्तेन प्रतिहितः क्रोधरूपेण परिणमतेऽतः क्रोधोऽभिज्वलनात्माप्येष एव तमेनमिह
शरीरेऽन्तः स्थितं वैरिणं विद्धि (गी० ३।३७ नी० क०) । (ख) विषयः = यद्वत्
सर्वे कामाः लोकैः काम्यमानाः विषयाः । न तु कामकामी काम्यन्त इति कामा
-
………...