This page has not been fully proofread.

शाङ्कुरवेदान्तकोशः
 
कर्मसमुच्चितज्ञानम् - कर्मणा सह ज्ञानं मोक्षसाधनम् । एतदर्थं कर्मज्ञान-
समुच्चयशब्दो द्रष्टव्यः ।
 
-
 
कर्माध्यक्षः - १ (क) कर्माध्यक्षः कर्मफलप्रदाता (ब्र० सू० १।१।४)
वे० क० त० । (ख) कर्मणां कारयितृत्वेन द्रष्टैव न कर्तेत्यर्थः (तत्रैव) ।
 
१५५
 
-
 
कर्माशयः – पुण्यापुण्यकर्मणामाशयः । यथा - क्लेशमूलः कर्माशयो दृष्टादृष्ट-
जन्यवेदनीयः (पा० यो० सू० २।१२) । अत्र तत्त्ववैशारद्याम् आशेरते
सांसारिकाः पुरुषा अस्मिन्नित्याशयः । कर्मणामाशयौ धर्माधर्मौ । यथा च - सकृठप्रवृत्तमेव
हि ते कर्माशयमतिवाहयन्तः (ब्र० सू० ३ । ३।३२ भाम० ) ।
 
कलाः – १. ज्ञानप्रयोजनम् । यथा - सर्वे चांशकलाः प्रोक्ताः कृष्णस्तु भगवान्
स्वयम् (भाग० १।३।२८ ) । इत्यत्र श्रीधर्याम्- अंशः शक्तिसमावेशः कला
ज्ञानप्रयोजनम् । २. षोडशकलाः । यथा - प्रश्नोपनिषदि ... यस्मिन्नेता षोडशकलाः
प्रभवन्तीति प्रस्तुत्य .... श्रद्धा खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनोऽन्नमन्नाद्वीर्यं तपो
मन्त्राः कर्मलोका लोकेषु नाम चेति पठ्यते । छान्दोग्ये तु दिगाद्यवयवः षोडशकल
उपास्यो न च.... कलाः षोडश भूतानि प्राणोऽक्षं नाम कर्म च श्रद्धा लोकास्तपो
मन्त्रा मनो वीर्यं शरीरकम् (ब्र० सू० १ /१/५ भाम०, वे० क० त० च ) । ३. रात्र्यादयः ।
यथा - स एव संवत्सरः प्रजापतिः षोडशकलस्तस्य रात्रय एव पञ्चदश कलाः स
रात्रिभिरेवा च पूर्यतेऽथ च क्षीयते सोऽमावास्या रात्रिमेतया षोडश्या कल्या सर्वमिदं
प्राणभृदनुप्रविश्य ततः प्रातर्जायते (बृ० उ० १/५/१४) । यथा च षोडशलः पुरुषः
(छा० उ० ६।७।१) ।४. चन्द्रस्य कलाः । यथा - अमृता मानदा पूषा पुष्टिस्तुष्टी
रतिधृतिः । शशिनी चन्द्रिका कान्तिश्ज्योत्स्ना श्रीः प्रीतिरङ्गदा । पूषणा चाथ पूर्णा स्युः
कला चन्द्रस्य षोडशी (कोशे) । ५. कला तु षोडशो भागः (अ० को० १।३।१५) ।
 
-
 
कल्पना - १. अभिलापः । यथा - कल्पनापोढत्वेऽपि भ्रान्तत्वाद् घटादिप्रत्ययस्य
.... (ब्र० सू० २।२।२८ भाम०) । अत्र वेदान्तकल्पतरौ - कल्पना अभिलापः तदपोढं
तद्रहितम् ।.... कल्पनापोढमभ्रान्तमिति प्रत्यक्षलक्षणकरणादित्यर्थः ।२. मनसा चिन्तनम् ।
यथा - स्वप्नवृत्तावपि त्वन्तश्चेतसा कल्पितं त्वसत् । बहिश्चेतो गृहीतं तद्द्दृष्टं
वैतथ्यमेतयोः (मा० उ० का० २।९) । जाग्रवृत्तावपि त्वन्तश्चेतसा कल्पितं त्वसत् ।
बहिश्चेतो गृहीतं सयुक्तं वैतथ्यमेतयोः (मा० उ० का० २।१०) ।
 
कल्पनाबादः - सृष्टिविषये अनेके वादाः सन्ति । तत्रैकः कल्पनावादः । यत्र
आत्मैव इदं सर्वं दृश्यमानं कल्पयति । यथा- कल्पयत्यात्मनात्मानमात्मा देवः
स्वमायया । स एव बुद्ध्यते भेदानिति वेदान्तनिश्चयः (मा० उ० का० २।१२) ।
 
-