This page has been fully proofread once and needs a second look.

१५४
 
शाङ्कुरवेदान्तकोशः
 
पश्यन्नपि परमार्थमिति न पश्यति । सचक्षुरचक्षुरिव सकर्णोऽकर्ण इव इत्यादि श्रुतेः ।

उक्तं च - सुप्तवज्जाग्रति यो न पश्यति द्वयं च पश्यन्नपि चाद्वयत्वतः । तथा च

कुर्वन्नपि निष्क्रियश्च यः स आत्मविन्नान्य इतीह निश्चयः । (वे० सा० जीवन्मुक्तप्रकरणे) ।

 
कर्मदेवः, कर्मदेव
देवो द्विविधः कर्मदेवः आजानदेवश्च । तत्र कर्मदेवः

श्रौत्रादिकर्मणा देवत्वं प्राप्नोति । आजानदेवश्च जन्मतः प्रारम्भत एव देवत्वं गतः ।

यथा - अग्निहोत्रादिश्रौतकर्मणा ये देवत्वं प्राप्नुवन्ति ते कर्मदेवाः (बृ० आ० उ०

४।३।३३ शा० भा० ) ।
 
कर्मदेवः
 
-
 

 
कर्मभोगः , कर्मभोग
प्रारब्धकर्मणां फलभोगः । लौकिकः पामरो जनः सुखदुःखरूपेण

भुङ्क्ते जीवनमुक्तस्तु कर्मफलं भुञ्जानोऽपि अभुञ्जान इव तिष्ठति । यथा - अयं

तु व्युत्त्थानसमये मांसशोणितमूत्रपुरीषादिभाजनेन शरीरेण अशनायापिपासा-

शोकमोहादिभाजनेनान्तःकरणेन च पूर्वपूर्ववासनया क्रियमाणानि कर्माणि भुज्य-

मानानि ज्ञानाविरुद्धारब्धफलानि च पश्यन्नपि बाधितत्वात् परमार्थतो न पश्यति ।

यथेन्द्रजालमिति । ज्ञानवांस्तदिन्द्रजालं पश्यन्नपि परमार्थमिति न पश्यति । सचक्षुरचक्षुरिव

सकर्णोऽकर्ण इव इत्यादिश्रुतेः । उक्तञ्च - स सुप्तवज्जाग्रति यो न पश्यति द्वयं च

पश्यन्नपि चाद्वयत्वतः । तथा च कुर्वन्नपि निष्क्रियश्च यः स आत्मविन्नान्य इतीह

निश्चयः (वे० सा० जीवन्मुक्तप्रकरणे ) ।
 
-
 
-
 

 
कर्मयोगः, कर्मयोग
गीतायां ज्ञानयोगभक्तियोगकर्मयोगप्रभृतयोऽनेके योगाः

प्रतिपादिताः । तत्र कर्मैव योगः कर्मयोगः । यथा - कर्मैव योगः कर्मयोगस्तेन कर्मयोगेन

कर्मिणां निष्ठा प्रोक्तेत्यर्थः (गी० ३।३ शा० भा०) । यथा च - कर्मयोगेन कर्मैव

योग ईश्वरार्पणबुद्ध्याऽनुष्ठीयमानं घटनरूपं योगार्थत्वाद्योग उच्यते (गी० १३२४

शा० भा०) । अन्ये पुनः कर्मयोगेनैव पूर्वोक्तलक्षणेन सांख्या ध्यानद्वारा पश्यन्तीति

साधनत्रयस्य समुच्चयो न तु विकल्पः (तत्रैव नी० क०) । कर्मयोगेन ईश्वरार्पण-

बुद्ध्या क्रियमाणेन फलाभिसन्धिरहितेन तत्तवर्णाश्रमोदितेन वेदविहितेन कर्म-

कलापेन चापरे मन्दाः पश्यन्त्यात्मनीति वर्तन्ते (तत्रैव म० सू०) । अन्ये मन्दाधि-

कारिणः कर्मैव योगार्थत्वगुणेन योगस्तेन कर्मयोगेन ईश्वरार्पणबुद्ध्यानुष्ठीय-

मानेन सत्त्वशुद्धिश्रवणमननध्यानापरोक्षज्ञानोत्पत्तिद्वारेणात्मन्यात्मानमात्मना

पश्यन्तीति पूर्ववत् (तत्रैव भाष्यो०) यथा च प्रवृत्त्या लक्ष्यते जायते

कर्मयोगः (गी० ४।१ आ० गि०) ।
 

 
कर्मसमुच्चयः - , कर्मसमुच्चयः
कर्मज्ञानसमुच्चयशब्दो द्रष्टव्यः ।