2023-03-12 05:00:46 by ambuda-bot
This page has not been fully proofread.
१५४
शाङ्कुरवेदान्तकोशः
पश्यन्नपि परमार्थमिति न पश्यति । सचक्षुरचक्षुरिव सकर्णोऽकर्ण इव इत्यादि श्रुतेः ।
उक्तं च - सुप्तवज्जाग्रति यो न पश्यति द्वयं च पश्यन्नपि चाद्वयत्वतः । तथा च
कुर्वन्नपि निष्क्रियश्च यः स आत्मविन्नान्य इतीह निश्चयः । (वे० सा० जीवन्मुक्तप्रकरणे) ।
देवो द्विविधः कर्मदेवः आजानदेवश्च । तत्र कर्मदेवः
श्रौत्रादिकर्मणा देवत्वं प्राप्नोति । आजानदेवश्च जन्मतः प्रारम्भत एव देवत्वं गतः ।
यथा - अग्निहोत्रादिश्रौतकर्मणा ये देवत्वं प्राप्नुवन्ति ते कर्मदेवाः (बृ० आ० उ०
४।३।३३ शा० भा० ) ।
कर्मदेवः
-
कर्मभोगः प्रारब्धकर्मणां फलभोगः । लौकिकः पामरो जनः सुखदुःखरूपेण
भुङ्क्ते जीवनमुक्तस्तु कर्मफलं भुञ्जानोऽपि अभुञ्जान इव तिष्ठति । यथा - अयं
तु व्युत्त्थानसमये मांसशोणितमूत्रपुरीषादिभाजनेन शरीरेण अशनायापिपासा-
शोकमोहादिभाजनेनान्तःकरणेन च पूर्वपूर्ववासनया क्रियमाणानि कर्माणि भुज्य-
मानानि ज्ञानाविरुद्धारब्धफलानि च पश्यन्नपि बाधितत्वात् परमार्थतो न पश्यति ।
यथेन्द्रजालमिति । ज्ञानवांस्तदिन्द्रजालं पश्यन्नपि परमार्थमिति न पश्यति । सचक्षुरचक्षुरिव
सकर्णोऽकर्ण इव इत्यादिश्रुतेः । उक्तञ्च - स सुप्तवज्जाग्रति यो न पश्यति द्वयं च
पश्यन्नपि चाद्वयत्वतः । तथा च कुर्वन्नपि निष्क्रियश्च यः स आत्मविन्नान्य इतीह
निश्चयः (वे० सा० जीवन्मुक्तप्रकरणे ) ।
-
-
कर्मयोगः – गीतायां ज्ञानयोगभक्तियोगकर्मयोगप्रभृतयोऽनेके योगाः
प्रतिपादिताः । तत्र कर्मैव योगः कर्मयोगः । यथा - कर्मैव योगः कर्मयोगस्तेन कर्मयोगेन
कर्मिणां निष्ठा प्रोक्तेत्यर्थः (गी० ३।३ शा० भा०) । यथा च - कर्मयोगेन कर्मैव
योग ईश्वरार्पणबुद्ध्याऽनुष्ठीयमानं घटनरूपं योगार्थत्वाद्योग उच्यते (गी० १३२४
शा० भा०) । अन्ये पुनः कर्मयोगेनैव पूर्वोक्तलक्षणेन सांख्या ध्यानद्वारा पश्यन्तीति
साधनत्रयस्य समुच्चयो न तु विकल्पः (तत्रैव नी० क०) । कर्मयोगेन ईश्वरार्पण-
बुद्ध्या क्रियमाणेन फलाभिसन्धिरहितेन तत्तवर्णाश्रमोदितेन वेदविहितेन कर्म-
कलापेन चापरे मन्दाः पश्यन्त्यात्मनीति वर्तन्ते (तत्रैव म० सू०) । अन्ये मन्दाधि-
कारिणः कर्मैव योगार्थत्वगुणेन योगस्तेन कर्मयोगेन ईश्वरार्पणबुद्ध्यानुष्ठीय-
मानेन सत्त्वशुद्धिश्रवणमननध्यानापरोक्षज्ञानोत्पत्तिद्वारेणात्मन्यात्मानमात्मना
पश्यन्तीति पूर्ववत् (तत्रैव भाष्यो०) यथा च प्रवृत्त्या लक्ष्यते जायते
कर्मयोगः (गी० ४।१ आ० गि०) ।
कर्मसमुच्चयः - कर्मज्ञानसमुच्चयशब्दो द्रष्टव्यः ।
।