2023-03-12 05:00:46 by ambuda-bot
This page has not been fully proofread.
शाङ्करवेदान्तकोशः
१५३
सानानीति ज्ञातमेवैषामावृत्तिपरिमाणम् । नहि सम्यग् दर्शने कार्ये निष्पन्ने यनान्तरं
किञ्चिच्छासितुं शक्यम् । आनियोज्यब्रह्मत्वप्रतिपत्तेः शास्त्रस्याविषयत्वात् । यानि
पुनरभ्युदंयफ्लानि तेष्वेषा चिन्ता । ... (ब्र० सू० ४।१।१२ शा० भा०) । ब्रह्म-
साक्षात्कारे केवले ज्ञानमेव साधनमित्यत्राह । यथा- अथेदानीमौपनिषदात्मज्ञानं
किमधिकारिद्वारेण कर्मण्येवानुप्रविशत्याहोस्वित् स्वतन्त्रमेव पुरुषार्थसाधनं भवतीति
मीमांसमानः सिद्धान्तेनैव तावदुपक्रमते- पुरुषार्थोऽत इति । अस्माद्
वेदान्तविहिततादात्यज्ञानात् स्वतन्त्रात्पुरुषार्थः सिद्ध्यतीति वादरायण आचार्यो मन्यते
कुत एतदवगम्यते - शब्दादित्याह । तथाहि-तरति शोकमात्मवित् (छा० ७।१।३) ।
सयो ह वै तत्परमे ब्रह्म वेद ब्रह्मैव भवति (मु० ३।२।९) । ब्रह्मविदाप्नोति पदम्
(तै० २।१।१ ) । आचार्यवान् पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ
सम्पत्स्ये (छा० ६।१४।२) इति । य आत्मा अपहतपाप्मा । (छा० ८/७/१)
इत्युपक्रम्य सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् यस्तमात्मानमनुविद्य विजानाति (छा०
८/७११) इति । आत्मा वा अरे द्रष्टव्यः (बृं० ४।५।६) । इत्युपक्रम्य एतावदरे
खल्वमृतत्वम् (बृ० ४।५।१५) । इत्येवं जातीयकाः श्रुतिः केवलायाः विद्यायाः
पुरुषार्थहेतुत्वं श्रावयति (ब्र० सू० ३।४।१ शा० भा०) । यथा च - नहि स पूर्वसमुद्रं
जिगमिषोः प्रातिलोम्येन प्रत्यक्समुद्रं जिगमिषुणा समानमार्गत्वं सम्भवति ।
प्रत्यगात्मविषयप्रत्ययसन्तान- करणाभिनिवेशश्च ज्ञाननिष्ठा । सा च प्रत्यक् समुद्रगमनवत्
कर्मणा सहभावित्वेन विरुध्यते । पर्वतसर्षपयोरिव अन्तरवान् विरोधः (गी० १८/५५
शा० भा० ) । एतद् - विपरीतं जैमिनिराचार्यः कर्मणा सह ज्ञानं साधनं मनुते (ब्र०
सू० ३।४।२-७) । आचार्यशङ्कराप्राक्तनाः ब्रह्मदत्तः श्रीभर्तृप्रपञ्चः आश्मरथ्यः
औड्डुलोमिश्च भेदाभेद-वादिनः । एते जीवब्रह्मणोर्भेदमङ्गीकृत्य कर्मकाण्डभागं
तयोश्चाभेदमङ्गीकृत्य ज्ञानकाण्डं समर्थयन्ति । अत इमे कर्मसमुच्चितज्ञानं
ब्रह्मसाक्षाकारसाधनं मन्वते । आचार्यमण्डनमिश्रः- ज्ञानकर्मसमुच्चयवादी । अयं
कथयंति – विज्ञाय प्रज्ञां कुर्वीत (बृ० आ० उ० ४।४।२१) । इत्युनासरं विज्ञाय =
तत्त्वमस्यादिमहावाक्यै ब्रह्म विज्ञायते ततः प्रज्ञया उपासनया ब्रह्मसाक्षात्कारः । स
-
-
प्रज्ञाम् उपासनाम् = प्रसंख्यानम् इति कथयति । अत एवायं प्रसंख्यानवादी - आवृत्तिर्हि
प्रसंख्यानम् (बृ० ऑ० उ० भा० वा० ८०३) नैष्कर्म्यसिद्धौ, बृ० उ० भा०
वार्तिके च अयं पक्षः भृशं खण्डितः ।
.…...
जीवन्मुक्तास्तु कर्मफलं भुञ्जानोऽपि अभुञ्जान इव तिष्ठति । यथा -- अयं
तु व्युत्त्थानसमये मांसशोणितमूत्रपुरीषादिभाजनेन शरीरेण अशनायापीपासाशोकमोहादि-
भाजनेनान्त करणेन च पूर्वपूर्ववासनया क्रियमाणानि कर्माणि भुज्यमानानि ज्ञानाविरुद्धारब्ध-
फलानि च पश्यन्नपि बाधितत्वात् परमार्थतो न पश्यति यथेन्द्रजालमिति । ज्ञानवांस्तदिन्द्रजालं