This page has not been fully proofread.

१५२
 
शाङ्करवेदान्तकोशः
 
उपभोगेन क्षपयित्वा ब्रह्म सम्पद्यते । तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये
(छा० ६।१४।२) । इति ब्रह्मैव सन् ब्रह्माप्येति इति चैवमादिश्रुतिभ्यः । ननु सत्यपि
सम्यग् यथा प्रागूदेहपाताद् भेददर्शनं द्विचन्द्रदर्शनन्यायेनानुवृत्तमेवं
पश्चादप्यनुवर्तेत, न, निमित्ताभावात् । उपभोगशेषक्षपणं हि तत्रानुवृत्तिनिमित्तम् । न
च तादृशमत्र किंचिदस्ति । नन्वपरः कर्माशयोऽभिनवमुपभोगमारप्स्यते । न तस्य
दग्धबीजत्वात् । मिथ्याज्ञानावष्टम्भं हि कर्मान्तरं देहपात उपभोगान्तरमारभते । तच्च
मिथ्याज्ञानं सम्यग्ज्ञानेन दग्धमित्यतः साध्वेतदारब्धकार्यक्षये विदुषः कैवल्यमवश्यं
भवतीति (त० शा० भा०) ।
 
.
 
-
 
कर्मज्ञानसमुच्चयः - मोक्षस्य किं साधनमिति विषये वेदान्ते पक्षद्वयम् ।
शाङ्कराद्वैतवेदान्तिनः केवलं ज्ञानमेव मोक्षसाधनं मन्यन्ते । मूलाविद्यया जातोऽयं सकल-
संसारप्रपञ्चो मूलाविद्याया नाशेन निवर्तते । कर्मणा सत्त्वशुद्धिस्ततो वैराग्यं ततो
कर्मसंन्यासस्ततो ज्ञानं ततो मोक्षः । कर्म केवलमन्तः शुद्ध्यर्थम् । मोक्षस्तु ज्ञानादेव ।
उक्तं चैतत् बृ० आ० उप० ४ । ३ । ३३ इत्यत्र । अविद्याबलेनैव शुद्धत्तैतन्यं ब्रह्म
जीवभावेन भाति । अविद्यानाशे मुक्त इत्युच्यते । अत एव तस्मादविद्यास्तमयो नित्यानन्द-
प्रतीतितः । निःशेषदुःखोच्छेदाच्च पुरुषार्थो परो मतः । (अ० सि० मु० आ० पुरुषार्थ०)
तदुक्तं वार्त्तिके - अविद्यास्तमयो मोक्षः सा च बन्ध उदाहृतः (तत्रैव गौ० ब्र०) ।
अतो ज्ञानमेव मोक्षकारणम् । अपरे केचन कर्मणः ज्ञानस्य च समुच्चयः साहित्यं
मुक्तिकारणमिति वदन्ति । अयं वादः कर्मज्ञानसमुच्चयवादोऽथवा ज्ञानकर्मसमुच्चय-
वाद इत्युच्यते । श्रीभगवत्पादशङ्कराचार्याणामिदमभिमतं यद् नित्यप्राप्तमोक्षार्थं कर्म
अकिञ्चित्करम् । यतो हि यज्ञादिकर्मकाण्डेन भव्यो धर्मोऽथवा कश्चन अपूर्व उत्पद्यते ।
कर्मणा संस्क्रियते उत्पाद्यते प्राप्यते विकार्यते च । न च मोक्षः संस्कार्य उत्पाद्यो विकार्यः
प्राप्यो वा । यथा - यस्य तूत्पाद्यो मोक्षस्तस्य मानसं वाचिकं कायिकं वा कर्मापेक्षत
इति युक्तम् । तथा विकार्यत्वे च तयोः पक्षयोर्मोक्षस्य ध्रुवमनित्यत्वम् । नहि दध्यादि-
विकार्यमुत्पाद्यं वा घटादि नित्यं दृष्टं लोके । न चाप्यत्वेनापि कार्यापेक्षा । स्वात्मस्वरूपत्वे
सत्यनाप्यत्वात् । स्वस्वरूपव्यतिरिक्तत्वेऽपि ब्रह्मणो नाप्यत्वं सर्वगतत्वेन नित्याप्तस्वरूपत्वात्
सर्वेण आकाशस्येव । नापि संस्कार्यो मोक्षः ।.... नित्यशुद्धब्रह्मस्वरूपत्वात् मोक्षस्य
(ब्र० सू० १/१/४ शा० भा०) । यथा च कर्मकाण्डे च भव्यो धर्मो जिज्ञास्य
इह तु भूतं नित्यनिवृत्तं ब्रह्म जिज्ञास्यमिति । तत्र धर्मज्ञानफलादनुष्ठानापेक्षत्वाद्
विलक्षणं ब्रह्मज्ञानफलं भवितुमर्हति (ब्र० सू० १।१।४ शा० भा०) । आवृत्तिरूपा
उपासना । इयं चापि न ब्रह्मसाक्षात्कारे साधनम् । यथा - अवृत्तिः सर्वोपासनेष्वादर्तव्येति
स्थितम् । तत्र यानि तावत् सम्यग्दर्शनार्थान्युपासनानि तान्यवद्यातादिवत् कार्यपर्यव-
-
 
-