2023-03-12 05:00:45 by ambuda-bot
This page has not been fully proofread.
१५१
शाङ्करवेदान्तकोशः
-
कर्मक्षयः – सञ्चितप्रारब्धक्रियमाणरूपत्रिविधकर्मणां नाशः । अप्रवृत्तफलयोः
अनारब्धकार्ययोः सुकृतदुष्कृतयोः कर्मणो र्ज्ञानादेव नाशः । आरब्धकार्ययोः प्रवृत्तफलयोः
सुकृतदुष्कृतकर्मणोर्भोगाज् ज्ञानादपि च नाशः । ज्ञानोत्पत्तौ सुकृतदुष्कृतकर्मणी भवत
एव नहि । अयमेव क्रियमाणकर्मणो नाशः । नाभुक्तं क्षीयते कर्म इति स्मृतिस्तथा-
ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुतेऽर्जुन (गी० ४।३७) इति गीतोक्तिश्च । यथा-
अनारब्धकार्ये एव तु पूर्वे तदवधेः (ब्र० सू० ४।१।१५) पूर्वयोरधिकरणयोर्ज्ञाननिमित्तः
सुकृतदुष्कृतयोर्विनाशोऽवधारितः । स किमविशेषेणारब्धकार्ययोरनारब्धकार्ययोश्च
भवत्युत विशेषेणानारब्धकार्ययोरेवेति विचार्यते । तत्र उभे उ हैवैष एते तरति (बृ०
उ० ४।४।२२) इत्येवमादिश्रुतिष्वविशेषश्रवणादविशेषेण क्षय इति । एवं प्राप्ते प्रत्याह
अनारब्धकार्ये एव त्विति । अप्रवृत्तफले एव पूर्वे जन्मान्तरसंचिते अस्मिन्नपि च जन्मनि
प्राग्ज्ञानोत्पत्तेः संचिते सुकृतदुष्कृते ज्ञानाधिगमात् क्षीयेते नत्वारब्धकार्ये सामिभुक्तफले,
याभ्यामेतद् ब्रह्मज्ञानायतनं जन्म निर्मितम् । कुत एतत् - तस्य तावदेव चिरं यावन्न
विमोक्ष्येऽथ संपत्स्ये। (छा० ६।१४।२) इति शरीरपातावधिकरणात् क्षेमप्राप्तेः ।
इतरथा हि ज्ञानादशेषकर्मक्षये सति स्थितिहेत्वभावाज् ज्ञानप्राप्त्यनन्तरमेव क्षेममश्नुवीत ।
तत्र शरीरपातप्रतीक्षां नाचक्षीत । ननु वस्तुबलेनायमकर्त्रात्माववोधः कर्माणि क्षपयन्
कथं कानिचित् क्षपयेत् कानिचिच्चोपेक्षेत । नहि समानेऽग्निबीजसम्पर्के केषाञ्चिद्
बीजशक्तिः क्षीयते केषांचिन्न क्षीयत इति शक्यमङ्गीकर्तुमिति । उच्यते - न तावदना-
श्रित्यारब्धकार्यं कर्माशयं ज्ञानोत्पत्तिरुपपद्यते । आश्रिते च तस्मिन् कुलालचक्रवत्
प्रवृत्तवेगस्यान्तराले प्रतिबन्धासम्भवाद् भवति वेगक्षयप्रतिपादनम् । अकर्त्रात्मबोधोऽपि
हि मिथ्याज्ञानबाधनेन कर्माण्युच्छिनत्ति । बाधितमपि तु मिथ्याज्ञानं द्विचन्द्रज्ञानवत्
संस्कारवशात् कञ्चित् कालमनुवर्तत एव । अपि च नैवात्र विवदितव्यं ब्रह्मविदा कञ्चित्
कालं शरीरं ध्रियते न वा ध्रियत इति । कथं हि एकस्य स्वहृदयप्रत्ययं ब्रह्मवेदनं देहधारणं
चापरेण प्रतिक्षेप्तुं शक्येत । श्रुतिस्मृतिषु च स्थितप्रज्ञलक्षणनिर्देशेनैतदेव निरुच्यते ।
तस्मादनारब्धकार्ययोरेव सुकृतदुष्कृतयोर्विद्यासामर्थ्यात् क्षय इति निर्णयः (ब्र० सू०
४।१ । १५ शां० भा०) । यथा च - ब्रह्मज्ञानान् मूलाज्ञाननिवृत्तौ तत्कार्यप्रारब्धकर्मणोऽपि
निवृत्तिः । कथं ज्ञानिनो देहधारणमुपपद्यते इति चेत् न । अप्रतिबद्धज्ञानस्यैव
अज्ञाननिवर्तकतया प्रारंब्धकर्मरूपप्रतिबन्धकदशायामज्ञाननिवृत्तेरनङ्गीकारात् (वे०
प० ८ प०) । यथा - भोगेन त्वितरे क्षपयित्वा सम्पद्यते (ब्र० सू० ४/१/१९) ।
अनारब्धकार्ययोः पुण्पपापयोर्विद्यासामर्थ्यात्क्षय उक्तः । इतरे त्वारब्धकार्ये पुण्यपापे