This page has not been fully proofread.

शाङ्कुरवेदान्तकोशः
 
शरीरसन्निकृष्ट
 
उर्द्ध्वदेशसंयोगहेतुरुत्क्षेपणम् । अधोदेशसंयोगहेतुरपक्षेपणम्,
संयोगहेतुराकुञ्चनम् । शरीरविप्रकृष्टसंयोगहेतुः प्रसारणम्, अन्यत् सर्वं गमनम् ।
पृथिव्यादिचतुष्टयमनोवृति (त० सं० ) । तच्च कर्मत्वं नित्यावृत्तिसत्तासाक्षाद्व्याप्य-
जातिरूपं नित्यावृत्तिपदार्थविभाजकोपाधिमत्त्वं वेति न्यायवैशेषिकाः । ४. कर्मपदस्य
शक्यार्थः यागो दानं होमो भावना च । यथा - तन्त्रवार्त्तिके - प्राप्ते कर्मणि नानेको
विधात्तुं शक्यते गुणः । अप्राप्ते तु विधीयन्ते बहवोऽप्येकयलतः । पूर्वमीमांसायाः
नाम कर्ममीमांसाप्यस्ति । अस्मिन् शास्त्रे कर्म विचार्यते ।
 
१५०
 
-
 
-
 
कर्मकृत् – १ . आत्मज्ञानम् । कर्माणि कृन्तति छिनत्तीति कर्मकृत् कर्मच्छेदकम् ।
यथा- कर्माण्यात्मीयेषु कर्मसु यः अकर्तृत्वादकर्मकत्वं पश्यति प्रशान्ततया अकर्मसु
च परकृते स्वात्मकृतत्वं जानाति परिपूर्णोदितरूपत्वेन स एव सर्वस्य मध्ये बुद्धिमान्
कार्येन साकल्येनासौ कर्म करोति । अतोऽस्य केन कर्मणा फलं दीयतामित्युदितदशायां
प्रशान्तत्वे तु कृत्स्नानि कर्माणि कृन्तति छिनत्ति । अतः सर्वमेव कर्म करोति न किञ्चिद्
वा करोत्युपनिषद् । यस्य सर्वस्मिन् कर्मणि देहेन्द्रियक्रियायामकर्म स्वात्मनि
निष्क्रियत्वं श्रोत्रादीनि शब्दादिषु वर्तन्ते वागादीनि वचनादौ मम किमायातमित्येवं
लक्षणं यः पश्येत् । अकर्मणि यः परैः प्रमातृभिः कृते कर्मणि पूजादौ कर्म क्रियां जनयति ।
एते कर्तारः सर्वेऽहमेवेति दृष्ट्या पूंजकैरविभेदेन सदा पूजेति पूजनमिति सिद्ध-
भाषाप्रामाण्यात् । स एव मनुष्येषु सामान्यजनेषु मध्ये बुद्धिमान् । देहेन्द्रियादिष्वपि
कर्तृत्वदर्शनादात्मनि निष्क्रियत्वदर्शनाच्च स एव कृत्स्नकर्मकृत् (गी० ४/१८
अभि० गु०) । यथा च - कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः । स बुद्धिमान्
मनेष्येषु स युक्तः कृत्स्नकर्मकृत् (गी० ४।१८) । अत्र श्रीधरीटीकायाम् - तत्र हेतुः-
यतः कृत्स्नानि सर्वाणि यदृच्छया प्राप्तान्याहारादीनि कर्माणि कुर्वन्नपि स युक्त
एवाकर्त्रात्मने समाधिस्थस्य एवेत्यर्थः । अनेनैव ज्ञानिनः स्वभावादापन्नं कलञ्ज-
भक्षणादिकं न दोषाय अज्ञस्य तु रागतः कृतं दोषायेति विकर्मणोऽपि तत्त्वं निरूपितं
द्रष्टव्यम् । यथा च यस्य सर्वे समारम्भः कामसङ्कल्पवर्जिताः । ज्ञानाग्निदग्धकर्माणं
तमाहुः पण्डितं बुधाः (गी० ४।१९) । यथा च - यथैन्धासि समिद्धोऽग्निर्भस्मसात्
कुरुतेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा (४।३७) यथा च-
योगसन्यस्तकर्माणं ज्ञानसंच्छिन्नसंशयम् । आत्मवन्तं न कर्माणि निबद्ध्नन्ति धनञ्जय
(गी० ४।४१) । तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः । छित्वैवं संशयं योग-
मातिष्ठोतिष्ठ भारत ॥ (गी० ४।४२) । २. कर्मणः कर्ता । ३. कर्मच्छेदकः ।
 
-
 
-
 
-