This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
-
 
कर्म –
कर्म, कर्मन्
१ . क्रियते यत् तत् कर्म । एतच्च द्विविधं सुकृतं दुष्कृतञ्च । श्रुतिस्मृति-

पुराणाद्यनुमोदितं कर्म सुकृतम् । विसर्गो देवतोद्देशेन चरुपुरोडासादिद्रव्यस्य परित्यागः

स एव विसर्गलक्षणो यज्ञः कर्मसंज्ञितः (गी० ८।३ शा० भा० एवमेव म० सू०

नी० क०, भाष्यो०) । कर्म ब्रह्मोद्भवं विद्धि (गी० ३।१५) । ब्रह्म वेदः स उद्भवः

कारणं यस्य (शा० भा०, एवमेव वी० क०, म० सू० श्रीधरी) । ख्यातमुपासनादिरूपं

च यत् कर्म (गी० ४।३३ म० सू०) । श्रुतिस्मृतिपुराणाद्यननुमोदितं कर्म दुःष्कृतम् ।

सुकृतं च पुनः पञ्चविधम् - काम्यनित्यनैमित्तिकप्रायश्चित्तोपासनाभेदेन । काम्यं च

फलोद्देश्येन विधीयमानं स्वर्गादीष्टसाधनं ज्योतिष्टोमादि । नित्यं चाकरणे प्रत्यवाय-

साधनं सन्ध्यावन्दनादि । नैमित्तिकं च पुत्रजननानन्तरं विधेयं जातेष्ट्यादि, उपरागे

स्नायादितिविधिविहितं ग्रहणस्नानादि । प्रायश्चित्तं च प्रायः पापं विजानीयाच्चित्तं

तस्यैव शोधनमित्युक्तदिशा पापक्षयमात्रसाधनं चान्द्रायणादि । उपासनं च शास्त्रबोधिते

सगुणे ब्रह्मणि दीर्घकालपर्यन्तं नैरन्तर्योपेतमनोवृत्तिस्थिरीकरणम् सगुणब्रह्म-

विषयकमानसव्यापाररूपम् । एतत्सर्वं वेदान्तसारे उक्तम् । पुनश्च त्रिविधम् प्रारब्धम्,

क्रियमाणम् सञ्चितं च । यत्कर्मवशादिह जन्मनि अस्मिन् शरीरे सुखदुःखाद्यनुभूयते

तप्रारब्धं कर्म । अहर्निशं वर्तमानजन्मनि सुकृतदुष्कृतरूपं यत् कर्म कृतं क्रियते

अनारब्धफलं तत् क्रियमाणम् । प्रारब्धक्रियमाणाभ्यामन्यद् अनारब्धफलं यदेकत्रितं

कर्म तिष्ठति तत् सञ्चितम् । यथा - सञ्चितं द्विविधम् - सुकृतं दुस्कृतं चेति तथा

च श्रुतिः - तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्यामिति (वे०

प० १ प०) । यथा च - कर्मिणां तु धूमादिमार्गेण पितृलोकं गतानामुपभोगेन

कर्मक्षये सति पूर्वकृतसुकृतदुष्कृतानुसारेण ब्रह्मादिस्थावरान्तेषु पुनरुत्पत्तिः । तथा च

श्रुतिः रमणीयचरणा रमणीयां योनिमापद्यन्ते कपूयाचरणाः कपूयां योनिमापद्यन्ते

(छा० उप० ५/१०/१) । अत्र रमणीयचरणाः प्रशस्तकर्माणः, रमणीयां योनिम् =

ब्राह्मणादियोनिम्, कपूयाचरणा निन्दितकर्माणः कपूयां योनिम्= श्वशूकरादियोनिम्,

आपद्यन्ते प्राप्नुवन्तीत्यर्थः । सुकृतकर्मणा ब्रह्मादिलोकप्राप्तिः दुष्कृतकर्मणा नरकादिलोक-

प्राप्तिश्च सर्वविधकर्मणां क्षये मोक्षावाप्तिः । मुक्त्यर्थं कर्मणां न साक्षात् प्रयोजनमिति

अद्वैतवेदान्तिनः । २. कर्तुरीप्सिततमं कर्म इति पाणिनिसूत्रे १।४।४९ । कर्तुः क्रियया

आप्तुमिष्टतमं कारकं कर्मसंज्ञं भवतीति वैयाकरणाः । व्याकरणेऽपरमपि प्रधानं

गौणमुपपदविभक्तिरूपमित्यादिकर्म । वैयाकरणभूषणसारे अनेकविधं कर्म निरूपितम् ।

३. चलनात्मकं कर्म । तच्च पञ्चविधम् - उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि ।
 
-
 
=
 
१४९