This page has been fully proofread once and needs a second look.

१४८
 
शाङ्करवेदान्तकोशः
 
-
 
(ख) साधकतमं करणम् (पा० सू० १ ।४।४२) । अस्यार्थः - क्रियासिद्धौ प्रकृष्टो-

पकारकं करणसंज्ञं स्यात् । स्वनिष्ठव्यापाराव्यवधानेन फलनिष्पादनम् । इदमेव

साधकतमम् (ल० म०) 1 यथा रामेण बाणेन हतो वाली । अत्र बाणनिष्ठव्यापारा-

व्यवधानेन प्राणवियोगरूपक्रियानिष्पत्तेस्तस्य करणसंज्ञा । सव्यापारं क्रियोत्पादकं

करणम् । निर्व्यापारं क्रियोत्पादकं यत् स हेतुः । यथा दण्डेन घटः । अयमेव करण-

हेत्वोर्भेदः । (ग) इन्द्रियम् । यथा इन्द्रियं करणं मतम् (भा०प० ५९) । यथा वा

अन्तःकरणम् ।
 
-
 

 
करणाधिपः - ,करणाधिप
जीवः । यथा - स कारणं करणाधिपाधिपो न चास्य कश्चिज्ज-

निता न चाधिपः (श्वे० ६।९) इति । तस्मात् सर्वज्ञं ब्रह्म जगतः कारणं नाचेतनं

प्रधानमन्यद् वेति सिद्धम् (ब्र० सू० १/१/११ शा० भा० ) । करणाधिपानाम्

जीवानाम् अधिपः (तत्रैव वे० क० त० ) ।
 
-
 

 
करूणः - , करूण
संन्यासी कृपावान् परमहंसपरिव्राजकः । यथा - करुण एव करुणा

कृपा दुःखितेषु दया तवान् करुणः सर्वभूताभयप्रदः संन्यासीत्यर्थ: (गी० १२/१३

शा० भा०)। दुःखदातारमपि न बाधितुमीष्टे अपि तु त्रातुमेवेच्छति । एतेन

सर्वभूताभयप्रदः संन्यासी उक्तः (तत्रैव नी० क०) । यतः करुणा दुःखितेषु दया

तवान् सर्वभूताभयदाता परमहंसपरिव्राजक इत्यर्थ: (तत्रैव म० सू० ) । अज्ञेषु

दुःखितेषु करूणा दया तद्वान् । यतः सर्वाणि भूतान्यात्मत्वेनानुपश्यति करुणः

कृपावान् (तत्रैव भाष्यो॰) । हीनेषु कृपालुरित्यर्थः (तत्रैव श्रीधरी) ।
 

 
कर्ता - , कर्तृ
स्वतन्त्रः कर्ता (पा० सू० १४/५४) स्वातन्त्र्यं च समभिव्याहृत-

कारकान्तरानधीनत्वे सति कारकत्वम् । धात्वर्थव्यापाराश्रयत्वं वा ( ल० म० सुब०,

वा० प० अपि एवमेव) यथा देवदत्तः पचतीत्यादौ देवदत्तः कर्ता इति वैयाकरणाः ।

बुद्धिरेव कर्त्री पुरुषे कर्तृत्वाभिमानः । यथा - प्रकृतेः क्रियमाणानि गुणैः कर्माण्य-

शेषतः। अहङ्कारविमूढात्मा कर्ताहमिति मन्यते (गी० ३।२७) । इति साङ्ख्याः।

अविद्योपाधिकं चैतन्यं जीवः । चैतन्यम् अकर्तृकमपि अविद्यावशात् स्वस्मिन् कर्तृत्वं

मन्यते इति अद्वैतिनः । क्रियानुकूलकृतिमान् तथा उपादानगोचरापरोक्षज्ञान-

चिकीर्षाकृतिमत्त्वम् । यथा ईश्वरस्य द्वयणुकादिकर्तृत्वम् (त० सं० दी०) यथा

वा कुलालस्य घटकर्तृत्वम् । क्रियायाः कृतेर्वा समवायित्वे कर्तृत्वमिति भावः । एतेन

रामो ग्रामं गच्छतीत्यत्र रामस्य कर्तृत्वम्, तथा काष्ठं पचतीत्यादौ काष्ठे

कर्तृपदप्रयोगः गौण इति नैयायिकाः ।