This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
१४७
 
तिस्रः कथा भवन्ति- वादः जल्पः वितण्डा चेति (वात्स्या० १/२ । ४२,

गौ० वृ० १।२।४२)। ४. प्राज्ञाः स्तोकसत्यां प्रबन्धकल्पनां कथां विदुः इति
 

काव्यज्ञाः ।
 
-
 

 
कथाभासः - , कथाभास
जातिः । यत्र वादिप्रतिवादिभ्यां परस्परमसकृदूषणमुद्-

भाव्यते सः । यथा प्रतिषेधोऽपि समानो दोषः (गौ० ५।१।३९) । शब्दः अनित्यः

प्रयत्नानन्तरीयकत्वादित्यत्र प्रयत्नानन्तरीयकत्वं न शब्दानित्यत्वं साधयति अनैकान्ति-

कत्वादिति यो दोषः स त्वत्पक्षेऽपि तुल्यः प्रयत्लाभिव्यङ्ग्यत्वस्याप्यसाधकत्वादिति

(गौ० वृ० ५/१/३९) । अत्र षट् पक्षाः प्रवर्तन्ते । तथा हि शब्दः अनित्यः

प्रयत्नानन्तरीयकत्वात् इति स्थापनावादिनः प्रथमः पक्षः । प्रयत्नकार्यानेकत्वात् कार्यसम

इति प्रतिवादिनां द्वितीयः पक्षः । प्रतिषेधाप्रतिषेधेऽप्यनैकान्तिकत्वतुल्यमिति

वादिनस्तृतीयः पक्षः । विप्रतिषेधस्तत्रापि तथैवानैकान्तिकत्वं तत्समानदोषोद्भावनं वा

चतुर्थ: पक्ष: (गौ० वृ० ५ । १।४१) । प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे

समानप्रसङ्गे मतानुज्ञा (गौ० ५/१/४२) । इति पञ्चमः पक्षः । स्वपक्ष-

लक्षणापेक्षोपपत्युपसंहारे हेतुनिर्देशे परपक्षदोषाभ्युपगमात् समानो दोषः (गौ० ५।१।४३) ।

इति षष्ठ: पक्षः (गौ० वृ० ५/१/४१-४३)। अत्र त्रयः पक्षा अपि सम्भवेयुः

(गौ० वृ० ५।१।४०) । कथा तस्याः षडङ्गानि प्राहुश्चत्वारि केचन (ता० २०) (इति

न्यायकोशः) ।
 

 
कप्यासः
 
-
 
, कप्यास
१ (क) कपेर्मर्कटस्याऽऽसः कप्यासः । आसेरुपवेशनार्थस्य करणे

घञ् ।कपिपृष्ठान्तो येनोपविशति । कप्यास इवं पुण्डरीकमत्यन्ततेजस्वेवमस्य देवस्याक्षिणी ।

उपमितोपमानत्वान्न हीनोपमा । तस्यैवं गुणविशिष्टस्य गौणमिदं नामोदिति (छा०

१।६।७ शा० भा०) । (ख) कपेर्मर्कटस्य आसः पश्चाद्भागः, तत्सदृशं रक्तवर्णमिति

पर्यवसितार्थः। एवमेव छान्दोग्यविवरणे भगवत्पादैर्व्याख्यानात् । यत्तु कप्यासं कं

पिबतीति कपिः पद्मनालः तत्रास्ते इति कप्यासम् । कं पिबतीति कपाः तस्मिन्, कपि

तस्य सप्तम्यन्तस्यासशब्देनालुक्समासे कप्यासम् । केऽप्यास्ते इति लुप्ताकाराप्युप-

सृष्टासशब्देन कप्यासमिति बहुविधं वृत्तिकृतां व्याख्यानम् (ब्र० सू० १ । १ । २० शा०

भाष्ये श्रीमदनन्तकृष्णशास्त्रिटिप्पण्याम्) । एतद्व्याख्यानं श्रीरामानुजीयसम्मतम् ।
 

 
-
 

 
करणम् - , करण
१ (क) क्रियते यत्तत् करणम् । भावे ल्युट् बाहुलकात् उत्पादन-

मित्यर्थः । यथा- करणमुत्पादनं तत्प्रसिद्धेरित्यर्थः (सं० शा० १९९ सु० टी०) ।