2023-03-21 12:33:53 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
-
कम् –
ब्रह्म । सुखम् । यथा - उच्यते- प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म । इत्येतदग्नीनां
वचनं श्रुत्वोपकोशल उवाच .... तत्रेदं प्रतिवचनम् यद् वा कं तदेव खं यदेव खं
-
तदेव कम् (छा० ४।१०।५)। कुत एतदविशेषितौ तु कं खं शब्दौ सुखात्मकं
ब्रह्म गमयतः (ब्र० सू० १/२/१५ शा० भा० ) । ब्रह्मपदं कं पदस्योपरि प्रयुज्यमानं
शिरः एवं खं पदस्यापि ब्रह्मपदं शिरो ययोः कं खं पदयोस्ते ब्रह्मशिरसी तयोर्भावो
ब्रह्म शिरस्त्वम् (तत्रैव भाम०) । अतो निगमनवाक्यमुपक्रमानुरोधात् प्राणं हिरण्य-
गर्भाख्यं कार्यं ब्रह्म तदाकाशं परब्रह्मरूपं सुखविशिष्टाकाशं चोचुरित्येतदर्थकमिति न
विरोधः इत्यापि द्रष्टव्यम् (तत्रैव क० त० प०) ।
१४६
....
-
कक्षम्
अरण्यम् । यथा - तस्मात्ते पुरुषं दृष्ट्वा भीताः कक्षम् अरण्यं श्वभ्रं
भयशून्यमित्युपद्रवन्त्युपगच्छन्ति (छा० २/९/७ शा० भा० ) ।
-
कटः
१. आशौचम् । यथा - सकटान्नं च नाश्नीयात् (या० स्मृ० प्रा०
अ० १५) । अत्र मिताक्षरावागू- कटशब्देनाशौचं लक्ष्यते तत्सहचरितमन्नम् ।
२. तृणादिनिर्मितमास्तरणम् ।
"
-
कथा
१. नानावक्तृकः पूर्वोत्तरपक्षप्रतिपादकवाक्यसंदर्भ : (त० सं० दी०)
एकेन पूर्वपक्षः क्रियते अन्येन समाधानम् । एवं क्रमेण नानाकर्तृकत्वं । नानाकर्तृकत्वं
वाक्यसमूहस्यावसेयम् (त० सं० नी०) । कथाधिकारिणस्तु तत्त्वनिर्णयविजय
एतदन्यतराभिलाषिणः सर्वजनसिद्धानुभवानपलापिनः श्रवणादिपटवः अकलहकारिणः
कथौपयिकव्यापारसमर्थाः (गौ० वृ० १/२/१ प्रस्तावनायाम्) कथकस्य कथायां
नियमविशेषस्तथा तत्खण्डनं च खण्डनखण्डखाद्यग्रन्थे दर्शिते । यथा - अथ कथायां
वादिनो नियममेतादृशं मन्यन्ते प्रमाणादयः सर्वतन्त्रसिद्धान्ततया सिद्धाः पदार्थाः
सन्तीति कथकाभ्यामभ्युपेयमिति । तदपरे न क्षमन्ते । तथाहि प्रमाणादीनां सत्त्वं
यदभ्युपेयं कथकेन तत् कस्य हेतोः । किं तदनभ्युपगच्छद्भ्यां वादिप्रतिवादिभ्यां
तदभ्युपगमसाहित्यनियतस्य तस्य प्रवर्तयितुमशक्यत्वात् उत कथकाभ्यां प्रवर्तनीय
वाग्व्यवहारं प्रति हेतुभावात् उत लोकसिद्धत्वात् अथवा तदनभ्युपगमस्य
तत्त्वनिर्णयविजयातिप्रसञ्जकत्वात् । न तावदाद्यः । तदनभ्युपगच्छतोऽपि
चार्वाकमाध्यमिकादेर्वाग्व्यवहाराणां सविस्तराणां प्रतीयमानत्वात् । तस्यैव वा
अनिष्पत्तौ भवतस्तन्निराकरणप्रयासानुपपत्तेः (ख० ख० खा० आदौ ) । २. तत्त्व-
निर्णयविजय एतदन्यतरस्वरूपयोग्यो न्यायानुगतवचनसन्दर्भ: (गौ०वृ० १ /२/१
प्रस्तावनायाम्) । ३. वादिप्रतिवादिनोः पक्षप्रतिपक्षपरिग्रहः (सर्व० द० सं० अक्ष०)
.