2023-03-12 05:00:44 by ambuda-bot
This page has not been fully proofread.
शाङ्करवेदान्तकोशः
-
-
-
विनिर्यातौ तस्मान्माङ्गलिकावुभौ । यथा च - ओंशब्दो मङ्गलप्रयोजनः कृत्स्नोपनिषदर्थस्मारक
इति शब्दो भाष्यसमाप्ति- द्योतनप्रयोजन इति बोध्यम् (का० उप० ६।२ शा० टी०
गो० टी०) । ४. उद्गीथम् । यथा- ओमित्येतदक्षरमुद्गीथमुपासीत् (छा० उप०
१ । १ ।१ ) । यथा च – य उद्गीथः स प्रणवः स उद्गीथः (छा० उ० १।५।१ ) ।
उद्गीथः प्राणो वा । उत्प्राणेन हीदं सर्वमुत्तब्धं वागेव गीथोच्च गीथा चेति स उद्गीथः
( बृ० आ० उप० १ ।३।२३) । ओम् एतदेव सर्वम् । यथा - ओमिति ब्रह्म । ओमितीद
ॐ सर्वम् । ओमित्येतदनुकृति ह स्म वा अप्याश्रावयेत्याश्रावयन्ति । ओमिति सामानि
गायन्ति । ओमिति शस्त्राणि शॐ सन्ति । ओमित्यध्वर्युः प्रतिगरं प्रतिगृह्णाति ।
ओमिति ब्रह्मा प्रस्तौति । ओमित्यग्निहोत्रमनुजानाति । ओमिति ब्राह्मणः प्रवक्ष्यन्नाह
ब्रह्मोपामवानीति ब्रह्मैवोपामोति (तै० उप० ८।१ ) ।
-
१४५
औपाधिकः - उपाधिना कृतः । जीवस्य परस्माद् ब्रह्मण औपाधिको भेदः ।
यथा - तस्मादनन्तब्रह्मात्मनोऽस्य परिच्छेद औपाधिकः । श्रूयते च जीवस्य
परस्मादौपाधिको भेदः। यथा ह्ययं ज्योतिरात्मा विवश्वानपो भिन्ना बहुधैकोऽनु-
गच्छन् । उपाधिना क्रियते भेदरूपो देवः (ब्र० सू० १।१।२ वे० क० त०) ।
औपनिषदः- उपनिषद्भ्यः प्रतीयमानः उपनिषन्मात्रगम्य इति यावत्
औपनिषदः पुरुषः परमात्मा । यथा- ततो विदित औपनिषदः पुरुषः (ब्र० सू०
१ । १ ४ शा० भा०) । यथा च - तं त्वौपनिषदं पुरुषं पृच्छामि (बृ० उप० ३।१।१६)
अत्र मनसैवानुद्रष्टव्य इति श्रुतिविरोधो न शङ्ख्यः । मनसा इत्यस्य मनननिदिध्यासन-
संस्कृतमनसा इत्यर्थः । एवमेव यतो वाचो निवर्तन्ते अप्राप्य मनसा सह (तै० उ०
२।४।१ ) इति श्रुतिविरोधोऽपि न शङ्क्यः । अत्र मनसा इत्यस्य असंस्कृतमनसा
अगम्य इत्यर्थः । यथोक्तम्- ब्रह्मसाक्षात्कारेऽपि मनननिदिध्यासनसंस्कृतं मन एव
करणम् । मनसैवानुद्रष्टव्य इत्यादिश्रुतेः । मनोऽगम्यत्वश्रुतिश्चासंस्कृतमनोविषया ।
न चैवं ब्रह्मण औपनिषदत्वानुपपत्तिः, अस्मदुक्तमनसो वेदजन्यज्ञानानन्तरमेव
प्रवृत्ततया वेदोपजीवित्वात् । वेदानुपजीविमानान्तरगम्यत्वस्यैव वेदगम्यत्त्व-
विरोधित्वात् (वे० प० ८ १०) । ब्रह्मसाक्षात्कारकारणं मन इति वाचस्पतिमिश्राः
(91919 भाम०) । ब्रह्मसाक्षात्कारकारणं शब्द इति विवरणकाराः । (प० पा० वि०
१ तथा २ व०) ।