2023-03-21 12:30:29 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
बोध्यते । धनुर्धरपदस्योत्कृष्टधनुधरे लक्षणा । तथैव तात्पर्यात् पार्थान्ययोगस्तत्तादात्यम् ।
तृतीयः क्रियायोगव्यवच्छेदः । यथा ग्रीष्मे सूर्यस्तपत्येव ।
१४४
एषणात्रयम्
लोकैषणा, पुत्रैषणा, वित्तैषणा च (क० उप० १/२१-२७) ।
-
-
ऐश्वरम्
१. ईश्वरस्य अघटनघटनासामर्थ्यम् । यथा- तेन दिव्येन चक्षुषा
पश्य मे योगमघटनघटनासामर्थ्यातिशयम् ऐश्वरमीश्वरस्य ममासाधारणम्
(गी० ११/८ म० सू०) । यथा च - ईश्वरस्य मम ऐश्वरं योगशक्त्यतिशयमित्यर्थः
(तत्रैव शा० भा०) । २. विश्वरूपम् ऐश्वरम् (तत्रैव ११/९ शा० भा० ) ।
ऐश्वर्यम्
ईश्वरस्येदम् ऐश्वर्यम् । तच्चेश्वरे कल्पितम् । यथा - सत्यज्ञानादेस्तु
समाम्नातस्य न क्वापि प्रतिषेध इति प्रतिपन्नोपाधौ निषिध्यमानमैश्वर्यं कल्पितमेव
स्तुत्यर्थमुपात्तं न सत्यत्वादिवत् स्वरूपान्तर्गतमित्यर्थः (सं० शा० १ । १९३
सु० टी०) । यथा च - ऐश्वर्यमीश्वरत्वं स्वातन्त्र्यम् (गी० मं० श्लो० आ० गि०) ।
यथा च – ये सगुणब्रह्मोपासनात् सहैव मनसेश्वरभावं व्रजन्ति । ..... जगदुत्यत्त्यादि
व्यापारं वर्जयित्वाऽन्यदणिमाद्यात्मकम् ऐश्वर्यं मुक्तानां भवितुमर्हति (ब्र०
सू० ४।४।१७ शा० भा० ) ।
-
ओम्
१. ब्रह्म । यथा - ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन् (गी०
८।१३) । यथा च - ओमित्येदक्षरमिदं सर्वं तस्योपव्याख्यानम् ।.... ओमिति आत्मानं
युञ्जीत । ओमिति ब्रह्म (मा० उप० ११ शा० भा० ) । यथा च - ओमितीदं
सर्वमित्यादिवाक्यान्तरसङ्ग्रहार्थमादिपदमित्यादिश्रुतिभ्यो ब्रह्मप्रतिपत्त्युपायत्वमोंकारस्य
प्रमितमिति शेषः । ओंकारेण सर्वा वाक् संवृणोति श्रुतेः । अतो युक्तमोंकार-
सर्वास्पदत्वमित्यर्थः। तस्य विकारः सर्वो वाविशेषः । ओंकारो वै सर्वा
वागिति श्रुतेः । ओंकारस्य च तप्रधानत्वात् तेन .....नास्ति । ओंकारमात्रं सर्वमिति
निश्चीयते । (तत्रैव आ० गि०) । यथा च - यस्य शब्दस्योच्चारणे यत्स्फुरति तत्तस्य
वाच्यं प्रसिद्धं समाहितचित्तस्यौँकारोच्चारणे यद्विषयोपरक्तं संवेदनं स्फुरति
तदोंकारमवलम्ब्य तवाच्यं ब्रह्मास्मीति ध्यायेत् तत्रापि असमर्थ ओम्शब्द एव
ब्रह्मदृष्टि कुर्यादित्यर्थः (का० उप० २/१५ आ० गि०) । २. प्रणवः । यथा -
तत्राप्यसमर्थस्तर्हि प्रणवे ब्रह्मदृष्टिं कुर्यात् (का० उप० २/१५ शा० भा० ) ।
भित्वा
३. मङ्गलार्थः । यथा - ओंकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं
-