This page has been fully proofread once and needs a second look.

शावेदान्तकोशः
 
१४३
 
-
 
-
 
ऋतम् –
ऋतम्, ऋत
१ . सत्यम् । यथा – ऋतं सत्यमवश्यम्भावित्वात् कर्मफलं पिबन्तौ (का०

उप० ३।१ शा० भा० ) । यथा च - सत्यम् अवश्यम्भावीतियावत् (ब्र० सू० १ /२/११

भाम० ) । २. कर्मफलम् । यथा- ऋतपानं कर्मफलोपभोगः (तत्रैव शा० भा० ) । ३

शास्त्रविहितकर्मज्ञानम् । यथा - यथाशास्त्रकर्मविषयं ज्ञानम् (तै० उप० ब्र० व० अनु

८ शा० भा०) । ४. कर्म । यथा - ऋतशब्दः कर्मवचनः ऋतं पिबन्तौ इति वचनात्

( स० द० सं० रामा० ) । ५. सत्यस्वरूपं ब्रह्म । यथा- ऋतं सत्यं चाभीद्धात् । ऋ०

वे० १०/१९०/१०) अत्र सायणः ऋतमिति सत्यनाम । ऋतं मानसं यथार्थसंकल्पनं

सत्यं यथार्थभाषणम् । एवमेव तत्रैव १०।९।१०८ तथा १/१०५/१५) ऋत-

सत्यशब्दयोः सूक्ष्मः कश्चन भेदः । अन्यथा ऋतं च सत्यमिति मन्त्रे पौनरुक्त्यापत्तिः

स्यादतः ऋतम् त्रिकालाबाधितं परमं सत्यं ब्रह्म । सत्यं तु यथा दृष्टं यथा श्रुतं

पुरोबाधितमपि सत्यमुच्यते । ६. यज्ञः । यथा है ॐ .सः शुचिषद्....गोजा

ऋतजा अद्रिजाना ऋतं बृहत् (क० उ० २/२६) यज्ञाङ्गरूपेण ज्ञायत इति ।

.....सर्वात्मापि सन् अवितथस्वभाव एव ( अत्र शा० भा०) । ऋतशब्दस्य

अग्न्युदकयज्ञगत्यादयोऽप्यर्थाः अनेके भवन्ति । ऋग्वेद - सायणभाष्यं द्रष्टव्यम् ।
 

 
एकजीववादः, एकजीववाद
तथा च कल्प्यमानमज्ञानम् एकमनेकं वेति विवादे एकस्यापि

निद्रादोषस्य अनेकविधकार्यजनकस्य स्वप्ने
दृष्टत्वात् लाघवसहकृता

अन्यानुपपत्तिर्विचित्रशक्तिमेकमज्ञानमादाय विश्राम्यतीति युक्तम् । अत एव अज्ञानस्य

जीवोपाधित्वात् तस्य च एकत्वात् तदुपाधिक आत्मा जीवो भवन्नेक एव भवति इति

एकजीववादिनो वदन्ति । यथोक्तानुपपत्तिसिद्धार्थानुवदिनी श्रुतिरपि - अजामेकां

लोहितशुक्लकृष्णाम्..... ( वेदान्तसिद्धान्तमुक्तावली)....। एकजीवपक्षे एकमुक्त्या

सर्वमुक्तिप्रसङ्गः इति चेत्, न एकत्ववादिनं प्रति सर्वत्वस्य निरूपयितुमशक्यत्वात् ।

तथापि बहवो जीवा इति अनुभवसिद्धा इति चेत् । भवतु तर्हि स्वप्नवद् व्यवस्था

(वे० सि० मु० ९) । एतदर्थम् अविद्याशब्दोऽपि द्र० ।
 

 
एकर्षिः
, एकर्षि
रविः । यथा - जगतः पूषणात् पूषा रविस्तथैक एव ऋषति

गच्छतीत्येकर्षिः (ई उप० १६ शा० भा०) ।
 
1
 
-
 
एव -

 
एव, एव
अस्यार्थस्त्रिविधः - विशेषणसङ्गतः विशेष्यसङ्गतः क्रियासङ्गतश्च ।

आद्य एवकारार्थः अयोगव्यवच्छेदः । यथा शंखः पाण्डुर एव । अत्र शंखत्वावच्छेदेन

पाण्डुरत्वायोगव्यवच्छेदो बुध्यते । अथवा विशेष्ये शंखे पाण्डूरत्वायोगव्यवच्छेदो

बोध्यते । द्वितीयः अन्ययोगव्यवच्छेदः । यथा पार्थ एव धनुर्धरः इत्यत्र धनुधरे