This page has been fully proofread once and needs a second look.

१४२
 
शाङ्करवेदान्तकोशः
 
सम्भवति गत्यादीनां चित्तविक्षेपकत्वात् । तिष्ठतोऽपि देहधारणे व्यापृतं मनो न

सूक्ष्मवस्तुनिरीक्षणक्षमं भवति । शयानस्याप्यकस्मादेव निद्रयाभिभूयेत । आसीनस्य

त्वेवंजातीयको भूयान् दोषः सुपरिहर इति सम्भवति तस्योपासनम् (ब्र० सू० ४।१।७

शा० भा० ) । यथा च - उपासनस्यापि यथाश्रवणमननं प्रत्ययावृत्तेरवगमे

द्वित्रिवारावृत्तेरवश्यंभावाद् विधित्सितार्थस्य ज्ञातस्य न पुनः कर्तव्यत्वं दर्शनस्य

त्वशक्यत्वं स्फुटमिति (ब्र० सू० १/१/४ वे० क० त० ) । यथा च - उपासनं

हि प्रत्ययावृत्तिः सा श्रवणमननकालयोरेकैकप्रत्ययोत्पत्तावपि प्रत्ययद्वयरूपा सिद्धैव

(तत्रैव क० त० प०) । यथा च - विद्युपास्त्योश्च वेदान्तेष्वव्यतिरेकेण प्रयोगो दृश्यते ।

क्वचिद् विदितोपक्रम्योपासिनोपसंहरति । यथा यस्तद्वेद यत्स वेद स मयैतदुक्तः

(छा० उप० ४।१।४) । इत्यत्र । अनु म एतां भगवो देवतां शाधि यो देवतामुपास्से

(छा० उप० ५।२।२) । क्वचिच्चोपासिनोपक्रम्य विदिनोपसंहरति । यथा मनो

ब्रह्मेत्युपासीत । (छा० उप० ३।१८।१ ) इत्यत्र भाति च तपति च कीर्त्या यशसा

ब्रह्मवर्चसेन य एवं वेद । (छा० उप० ३।१८।३) (ब्र० सू० ४।१।१ शा०

भा० ) । यथा च उपासनं
नाम यथाशास्त्रमुपास्यस्यार्थस्य विषयीकरणेन

सामीप्यमुपगम्य तैलधारावत् समानप्रत्ययप्रवाहेन दीर्घकालेन यदासनं तदुपासनम् (गी०

१२।३ शा० भा०) । आसनमिहानात्मनामदर्शनमेव (तत्रैव नी० क०) । ये त्वक्षरं

पर्युपासते ध्यायन्ति तेऽपि मामेव प्राप्नुवन्ति इति द्वयोरन्वयः (तत्रैव श्रीधरी) ।

शास्त्रतोऽक्षरं
ज्ञात्वा तदुपेत्यात्मत्वेनोपगम्योपासते तथैव तिष्ठन्ति
 
ज्ञात्वा
 
तथैव
 
-
 

पूर्णचिदेकतानमक्षरमात्मानमेव
 
सदा- भावयन्ति इत्येतद् विवक्षितम् (तत्रैव आ०

गि०) । यथा च - तमेतमात्मानं वेदानुवचनेन ब्राह्मणा विवदिषन्ति यज्ञेन इत्यादि-

श्रुतेस्तपसा कल्मषं हन्ति इत्यादिस्मृतेश्च । (वे० सा०) उपासना त्रैविध्यम् । यथा -

त्रैविधमिह ब्रह्मोपासनं विवक्षितम् प्राणधर्मेण प्रज्ञाधर्मेण स्वधर्मेण च (ब्र० सू०

१ । १ ।३१ शा० भा०) । यथा च - एवं सति त्रिविधमुपासनं प्रसज्येत जीवोपासनं

मुख्यप्राणोपासनं ब्रह्मोपासनं चेति । (ब्र० सू० १/१/३१ शा० भा०) नैष सन्दर्भो

ब्रह्मवाक्यमेव भवितुमर्हतीति किन्तु तथायोगं किञ्चिदत्र जीववाक्यं किञ्चिन्मुख्यप्राणवाक्यं

किञ्चिद् ब्रह्मवा॒क्यमित्यर्थः (तत्रैव भा०) । (२) अभिगमनमुपादानमिज्यास्वाध्यायो

योग इति पञ्चविधमुपासनं श्रीपाञ्चरात्रेऽभिहितम् (स० द० सं०) । ध्यानाराधन-

प्रसंख्याननिदिध्यासनशब्दाः उपासनशब्दसमानार्थाः ।
 

 
उरुगायः, उरुगाय
विस्तृतगतिः । यथा - विस्तीर्णां गतिम् (का० उप०२।११ शा०भा०) ।