2023-03-12 05:00:43 by ambuda-bot
This page has not been fully proofread.
शाङ्करवेदान्तकोशः
१४१
-
-
वर्त्तमानत्वे सति व्यावर्तकत्वमुपाधिस्तथा वर्तमानत्वे सति व्यावर्तकत्वं विशेषणमपि ।
किन्त्वनयोरयं भेदः उपाधिः कार्यानन्वयी भवति विशेषणं तु कार्यान्वयि भवति । यथा -
अन्तःकरणस्य विशेषणत्वोपाधित्वाभ्यामनयोः (जीवसाक्षिणोः) भेदः। विशेषणं च
कार्यान्वयि व्यावर्तकम् । उपाधिश्च कार्यानन्वयी व्यावर्तको वर्तमानश्च । रूपविशिष्टो
घटोऽनित्यः इत्यत्र रूपं विशेषणम् । कर्णशष्कुल्यवच्छिन्नं नभ श्रोत्रमित्यत्र
कर्णशष्कुल्युपाधिः । अयमेवोधिर्नैयायिकैः परिचायक इत्युच्यते (वे० प० १ प०) ।
यथा च अन्तःकरणसाहित्यराहित्याभ्यां विशिष्यते । उपाधिर्जीवभावस्य ब्रह्मतायाश्च
नान्यथा (पा० द० ७/८५ ) । यथा च कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः ।
२. हेत्वाभासभेदविशेषः। यथा - साध्यव्यापकत्वे सति साधनाव्यापकत्वमुपाधिः
(त० सं० २ ख०) । ३. धर्ममात्रम् । यथा जन्यमात्रं क्रियामात्रं वा कालोपाधिः स
च धर्मः क्वचिज्जात्यादिः क्वचिद्भिन्नोऽपि । यथा पदार्थविभाजकत्वमित्यादौ ।
पदार्थविभाजकोपाधयस्तावद्रव्यत्वगुणत्वकर्मत्वसामान्यत्वविशेषत्वाभावत्वरूपाः सन्ति ।
तत्र द्रव्यत्वादयो जातिरूपाः । सामान्यत्वादयस्तु तद्भिन्नाः । जातिभिन्नो धर्मोऽपि
द्विविधः सखण्डोपाधिः अखण्डोपाधिश्चेति । तत्राद्यः आकाशत्वादिः । द्वितीयः
प्रमेयत्वकुण्डलित्वप्रतियोगित्वादिः । ४. निमित्तम्, प्रयोजनं कारणं वा । यथा - वायोः
प्राणापानादिसंज्ञायां हृदयादिस्थानं मुखनिर्गमादिक्रिया चोपाधिः । उपाधिभेदेप्येकस्य
नानायोग आकाशस्येव घटादिना भवति । उक्तं च कार्योपाधिरयं जीवः कारणोपा-
धिरीश्वरः इत्यद्वैतवेदान्तिंभिः। (सोपाधिको हेतुर्व्याप्यत्वासिद्धः (त० सं० २ ख०)
उपाधि-सहितो हेतुः सोपाधिर्दुष्टहेतुरिति यावत् ।
-
दोषप्रयुक्तभानत्वं स्वबाधकाबाध्यबाधकं प्रति निषेध्यत्वेन विषयत्वं वा विपक्षाद्
व्यावृतं समव्याप्तम् (अद्वैतसिद्धौ २ परिच्छेदे सोपाधिकत्वनिरासे) । उदयनाचार्यमते
समव्याप्त एव उपाधिः । २. कार्यानन्वयी व्यावर्तकः । यथा - उपाधिश्च कार्यानन्वयी
व्यावर्तको वर्तमानश्च रूपविशिष्टो घटोऽ नित्य इत्यत्र रूपं विशेषणम् । कर्णशष्कुल्यवच्छिन्नं
नभः श्रोत्रमित्यत्र कर्णशष्कुल्युपाधिः । अयमेवोपाधिर्नैयायिकैः परिचायक इत्युच्यते
(वे० प० १ परि०) । ३. अन्यथा स्थितस्य वस्तुनोऽन्यथा प्रकाशनरूपो व्यापारः ।
यथा – यत्र वाप्युपधिं पश्येत् तत्सर्वं विनिवर्तयेत् (म० स्मृ० ८।१६५) ।४. छलमिति
काव्यज्ञाः ।
उपासनम् – १. आराधनम्, चितस्य समानप्रत्ययप्रवाहकरणमिति यावत् ।
यथा - उपासनं नाम समानप्रत्ययप्रवाहकरणम् । न च तद्गच्छतो धावतो वा