This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
-
 
उपसंहारः - , उपसंहार
१. ग्रन्थतात्पर्यावधारकलिङ्गविशेषः । यथा - उपक्रमोपसंहारौ

हेतुस्तात्पर्यनिर्णये इत्यादि । २. विस्तरेण निरूपितस्य पदार्थस्य सारांशकथनेन

तन्निरूपणसमापनम् । यथा- तदेतत् त्रिविधकारणमध्ये यदसाधारणं कारणं तदेव

करणम् (त० सं० ) । इति करणलक्षणस्योपसंहारः (त० दी०) यथा - अनुपसंहारी

हेतुरित्यत्र साध्यहेत्वोरूपसंहारस्याभावः ।
 
-
 
१४०
 

 
उपहितम्, उपहित
उपाधिना युक्तम् । यथा - साक्षि तु अन्तकरणोपहितं चैतन्यम्

(वे० प० १ प०) ।
 
-
 
1
 
उपादानम् -

 
उपादानम्, उपादान
१ . त्रिविधकारणेषु अन्यतमं कारणम् । कारणं त्रिविधम् - उपादान-

सहकारिनिमित्तभेदात् । यथा- यद्वा निखिलजगदुपादानत्वं ब्रह्मणो लक्षणम् ।

उपादानत्वं च जगदध्यासाधिष्ठानत्वं जगदाकारेण विपरिणममानमायाधिष्ठानत्वं वा ।

एतादृशमेवोपादानत्वमभिप्रेत्य इदं सर्वं यदयमात्मा सच्च त्यच्चाभवत् (तै० २।६)

बहुस्यां प्रजायेय (तै० २।६) इत्यादिश्रुतिषु ब्रह्मपञ्चयोस्तादात्यव्यपदेशः । घटः

सन् घटो भाति घटो दृष्ट इत्यादिलौकिकव्ययदेशोऽपि सच्चिदानन्दरूप -

ब्रह्मैक्याध्यासात् (वे० प० ७ १०) । यथा च - उपादानं त्रिधा भिन्नं विवर्ति परिणामि

च । आरम्भकं च तत्रान्त्यौ न निरंशेऽवकाशिनौ (प०६० १३ । ६) । यथा च अस्तु

ब्रह्म जगदुपादानम् । तज्जन्मनि घटजन्मनि कुलालवत् तत्स्थितौ राजस्थेमनि राजवत्

उपादानादन्यदेव निमित्तं भविष्यति इति शङ्काव्यवच्छेदाय तस्यैव जगज्जननजीवन-

नियामकत्वमुक्तम् । तथा चैकमेवेदं लक्षणमभिन्ननिमित्तोपादानतया अद्वितीयं ब्रह्म

उपलक्षयति इत्याहुः । ...अथ शुद्धं ब्रह्म उपादानमिष्यते ईश्वररूपं जीवरूपं वा ।

अत्र संक्षेपशारीरकानुसारिणः केचिदाहुः- शुद्धमेवोपादानम् (सि० ले० सं० १ प०)

उपादानकारणमेव समवायिकारणमप्युच्यते । यथा तर्कसंग्रहे - कारणं त्रिविधं

समवाय्यसमवायिनिमित्तभेदात् (त० सं० प्र० ख०) । २. आध्यात्मिकतुष्टिविशेष

इति सांख्याः । (३) असहकृतं कारणमुपादानम् । यथा उत्तरोत्तरविज्ञानव्यक्तौ पूर्वपूर्व-

विज्ञानव्यक्तिरुपादानमिति विज्ञानवादिनो बौद्धाः ।
 

 
-
 

 
उपादेयम् - , उपादेय
१. उपादातुं योग्यम्, उपादानयोग्यम्, उपादानकारणार्हमिति

यावत् । २. ग्राह्यं वस्तु । यथा उपादेय आत्मा इत्यादि । यद् यद् द्रव्यध्वंसजन्यं

तत्तदुपादानोपदेयमिति समवेतवदस्यार्थ इति नैयायिकाः ।
 

 
उपाधिः - , उपाधि
१. उप समीपे स्थित्वा स्वीयरूपमादधातीति । यथा अज्ञानं चिदात्मनः

समीपे स्थित्वा स्वीयं रूपमस्मिन् प्रत्याययति । तस्मादज्ञानोपाधिक आत्मेत्युच्यते