This page has not been fully proofread.

शाङ्कुरवेदान्तकोशः
 
-
 
उपसंहारः - १. ग्रन्थतात्पर्यावधारकलिङ्गविशेषः । यथा - उपक्रमोपसंहारौ
हेतुस्तात्पर्यनिर्णये इत्यादि । २. विस्तरेण निरूपितस्य पदार्थस्य सारांशकथनेन
तन्निरूपणसमापनम् । यथा- तदेतत् त्रिविधकारणमध्ये यदसाधारणं कारणं तदेव
करणम् (त० सं० ) । इति करणलक्षणस्योपसंहारः (त० दी०) यथा - अनुपसंहारी
हेतुरित्यत्र साध्यहेत्वोरूपसंहारस्याभावः ।
 
-
 
१४०
 
उपहितम् – उपाधिना युक्तम् । यथा - साक्षि तु अन्तकरणोपहितं चैतन्यम्
(वे० प० १ प०) ।
 
-
 
1
 
उपादानम् - १ . त्रिविधकारणेषु अन्यतमं कारणम् । कारणं त्रिविधम् - उपादान-
सहकारिनिमित्तभेदात् । यथा- यद्वा निखिलजगदुपादानत्वं ब्रह्मणो लक्षणम् ।
उपादानत्वं च जगदध्यासाधिष्ठानत्वं जगदाकारेण विपरिणममानमायाधिष्ठानत्वं वा ।
एतादृशमेवोपादानत्वमभिप्रेत्य इदं सर्वं यदयमात्मा सच्च त्यच्चाभवत् (तै० २।६)
बहुस्यां प्रजायेय (तै० २।६) इत्यादिश्रुतिषु ब्रह्मपञ्चयोस्तादात्यव्यपदेशः । घटः
सन् घटो भाति घटो दृष्ट इत्यादिलौकिकव्ययदेशोऽपि सच्चिदानन्दरूप -
ब्रह्मैक्याध्यासात् (वे० प० ७ १०) । यथा च - उपादानं त्रिधा भिन्नं विवर्ति परिणामि
च । आरम्भकं च तत्रान्त्यौ न निरंशेऽवकाशिनौ (प०६० १३ । ६) । यथा च अस्तु
ब्रह्म जगदुपादानम् । तज्जन्मनि घटजन्मनि कुलालवत् तत्स्थितौ राजस्थेमनि राजवत्
उपादानादन्यदेव निमित्तं भविष्यति इति शङ्काव्यवच्छेदाय तस्यैव जगज्जननजीवन-
नियामकत्वमुक्तम् । तथा चैकमेवेदं लक्षणमभिन्ननिमित्तोपादानतया अद्वितीयं ब्रह्म
उपलक्षयति इत्याहुः । ...अथ शुद्धं ब्रह्म उपादानमिष्यते ईश्वररूपं जीवरूपं वा ।
अत्र संक्षेपशारीरकानुसारिणः केचिदाहुः- शुद्धमेवोपादानम् (सि० ले० सं० १ प०)
उपादानकारणमेव समवायिकारणमप्युच्यते । यथा तर्कसंग्रहे - कारणं त्रिविधं
समवाय्यसमवायिनिमित्तभेदात् (त० सं० प्र० ख०) । २. आध्यात्मिकतुष्टिविशेष
इति सांख्याः । (३) असहकृतं कारणमुपादानम् । यथा उत्तरोत्तरविज्ञानव्यक्तौ पूर्वपूर्व-
विज्ञानव्यक्तिरुपादानमिति विज्ञानवादिनो बौद्धाः ।
 

 
-
 
उपादेयम् - १. उपादातुं योग्यम्, उपादानयोग्यम्, उपादानकारणार्हमिति
यावत् । २. ग्राह्यं वस्तु । यथा उपादेय आत्मा इत्यादि । यद् यद् द्रव्यध्वंसजन्यं
तत्तदुपादानोपदेयमिति समवेतवदस्यार्थ इति नैयायिकाः ।
 
उपाधिः - १. उप समीपे स्थित्वा स्वीयरूपमादधातीति । यथा अज्ञानं चिदात्मनः
समीपे स्थित्वा स्वीयं रूपमस्मिन् प्रत्याययति । तस्मादज्ञानोपाधिक आत्मेत्युच्यते