This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
उपमानप्रमाणं नाङ्गीकुर्वन्ति ( ल० म०) । केचन बौद्धाः वैशेषिकाश्चार्वाका

साङ्ख्याश्च उपमानप्रमाणं न मन्यन्ते ।
 
१३९
 
-
 

 
उपमितिः - , उपमिति
उपमानप्रमाणजन्यं ज्ञानमनुभवः सादृश्यज्ञानकरणकं ज्ञानं वा ।

 
उपरतिः, उपरति
बेदान्तसम्मतसाधनचतुष्टये शमादिषट्कसम्पत्तिरूपमेकं साधनम् ।

तत्रान्यतममुपरतिरूपम् । (शमदमोपरतितितिक्षासमाधानश्रद्धाख्याः षट्सम्पत्तयः)

यथा- निवर्तितानामेतेषां (इन्द्रियाणाम्) तद्व्यतिरिक्तविषयेभ्य उपरमणम्

उपरतिः, अथवा विहितानां कर्मणां विधिना परित्यागः (वे० सा० ८) । यथा च -

विक्षेपाभावः उपरतिः ।... अत्रोपरमशब्देन संन्यासोऽभिधीयते तथा च संन्यासिनामेव

श्रवणाधिकार इति केचित् । अपरे तु उपरमशब्दस्य संन्यासवाचकत्वाभावाद्

विक्षेपाभावमात्रस्य गृहस्थेष्वपि सम्भवात् जनकादेरपि ब्रह्मविचारस्य श्रूयमाणत्वात्

सर्वाश्रमसाधारणं- श्रवणादिविधानमित्याहुः (वे० प० ८ प०) । वेक्षेपो नाम

आन्तरेन्द्रियाणां बाह्येन्द्रियाणां च स्वाधिकारविषयव्यतिरिक्तविषयकवृत्त्युदयः।

एवं रूपविक्षेणाभाव उपरतिः ।
 
-
 

 
उपलक्षणम् - , उपलक्षण
व्यावर्तकम्, प्रकारो वा । उपलक्षणविशेषणयोरयं भेदः । वर्तमानत्वे

(विद्यमानत्वे) सतीतरव्यावर्तकं विशेषणं भवति । यथा शुक्लां गामानयेत्युक्ते कृष्णां

गां व्यावर्तयति । उपलक्षणं तु अवर्तमानत्वे (अविद्यमानत्वे) सतीतरव्यावर्तकं भवति ।

यथा शाखायां चन्द्र इत्युक्ते शाखायामविद्यमानमपि चन्द्रमुपलक्षयति शाखायां चन्द्र

इति वाक्यम् । यथा वा काकवन्तो देवदत्तस्य गृहा इत्युक्ते कदाचित् काकवन्तो

गृहा दृष्टा अधुना अकाकवन्तोऽपि इतरेभ्यो व्यावर्तयति देवदत्तगृहांश्चोपलक्षयति

काकवन्तो देवदत्तस्य गृहा इति वाक्यम् । एवमेव एकमेवाद्वितीयं ब्रह्मेति वाक्यम्

अद्वितीयोपलक्षितं ब्रह्म बोधयति । अत एवोच्यते न्यायशास्त्रे उपलक्षणं स्वानधि-

करणेऽपि व्यावृत्तिं बोधयति । उपलक्षणस्य शाव्दबोधे भानं न भवतीति सिद्धान्तः ।

अत्रोपलक्षणत्वं तु तत्पदनन्यबोधविषयत्वेन शक्त्यविषयत्वम् ।
 

 
उपलम्भः -
 
-
 
, उपलम्भ
अविद्याकल्पनामात्रंम् । यथा - उपलम्भनमुपलम्भोऽविद्या-

कल्पनामात्रंम् । ..... त्रिष्वपि स्मृतो ब्रह्मविद्भिर्न परमार्थसत्यता त्रयाणाम् (मा० का०

४।९० शा० भा० ) । त्रयाणां जागरितस्वप्नसुषुप्तानामित्यर्थः ।
 
-
 

 
उपशमः - , उपशम
अहंकारराहित्यम् । यथा- उपशमो निरहङ्कारत्वम् अनौद्धत्यम्

(गी० ५/१८ आ० गि०) ।