This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
निश्चितं
 
यथा च - शुद्धजीव उपशब्दार्थः सामीप्योपलक्षितं ब्रह्म
निश्चितं
नीत्वा तत्स्वरूपं ग्राहयित्वा सकार्यां समूलां चाविद्यां शिथिलयति नाशयति या

सा उपनिषद् इत्यर्थः । एवमेव बृ० आ० उ० ५/५/३ शा० भा०, का० उ०

१।४।३ शा० भा० आ० गि०, तै० उ० अनुशि० ३, ब्र० उ० ४ भा०, बृ०

आ० उ० उपो०, ब्र० सू० २/१/१ शा० भा०, सं० शा० ३।३० अ०

टी०, तथा तत्रैव २।३।३०१ अ० टी०) ।
 
..
 
१३८
 
-
 

 
उपन्यासः - , उपन्यास
१ वाक्यप्रयोगः । यथा - तस्माद् ब्रह्मजिज्ञासोपन्यासमुखेन ।
.

(ब्र० सू० उपो० शा० भा० ) २. विचारः । यथा - यथापुण्यमुपन्यासं निबोधत ( म०

स्मृ० ९/३१ कु० भ०) ३. विश्वासेनान्यसमीपे द्रव्योपक्षेपः उपन्यास उपनिधिर्वा

व्यवहारविदः ।
 
-
 

 
उपपत्तिः - , उपपत्ति
१. युक्तिः । यथा - प्रकरणप्रतिपाद्यार्थसाधने तत्र तत्र श्रूयमाणा

युक्तिरुपत्तिः (वे० सा०) । यथा च श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः ।

उपपत्तिरत्र अनुमानम् । यथोक्तम्- उपक्रमोपसंहारावभ्यासाऽपूर्वता फलम् ।

अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये । २. सङ्गतिः । यथा - उपपत्तिमदूर्जिताश्रयम् -

वचनम् (कि० २१) ३. ज्ञानम् ।
 
--
 
यथा - समानानेकधर्मोपत्तेः (गौ० वृ०

१।१।२३) । ४. हेतुः । ५. उपायः । ६. प्राप्तिः । ७. सिद्धिः इति काव्यज्ञा वदन्ति

(वाच०)।
 

 
उपभोगः
 
-
 
, उपभोग
विषयसेवनजन्यसुखविशेषः । यथा - ऐहिकानां स्रक्चन्दन-

वनितादिविषयभोगानां कर्मजन्यतयाऽनित्यवदामुष्मिकाणामप्यमृतादिविषयभोगानाम-

नित्यतया तेभ्यो नितरां विरतिरिहामुत्रार्थफलभोगविरागः (वे० सा० ) ।
 
-
 

 
उपमर्दः, उपमर्द
१ . नाशः । यथा अविद्योपमर्दे विद्योदये इत्यादि अद्वैतिनः ।

२. रूपान्तरोपजनः । यथा - एकरूपनिवृत्तौ रूपान्तरोपजन: (वात्स्या० २/२/५६)

यथा च व्याकरणे अस्तेर्भूः इति सूत्रे ब्रुवो दचिः इति सूत्रे पाघ्राध्मेत्यादि सूत्रे

च अस्स्थाने भू-इत्यादेशः, ब्रू इति स्थाने वच् इत्यादेशः पादीनां स्थाने पिबाद्यादेशः ।

 
उपमानम् , उपमान
एकं प्रमाणम् । यथा- अथोपमानं निरूप्यते । तत्र सादृश्य-

प्रमाकरणमुपमानम् । तथा हि नगरेषु दृष्टगोपिण्डस्य पुरुषस्य वनं गतस्य गवयेन्द्रिय-

सन्निकर्षे सति भवति प्रतीतिः अयं पिण्डो गोसदृश इति । तदनन्तरं भवति निश्चयः ।

अनेन सदृशी मदीया गौरिति । तत्रान्वयव्यतिरेकाभ्यां गवयनिष्ठगोसादृश्यज्ञानं

कारणम् । गोनिष्ठगवयसादृश्यज्ञानं फलम् (वे० प० ३ प०) । वैयाकरणा-
-