This page has not been fully proofread.

शाङ्करवेदान्तकोशः
 
-
 
उपनिषद् - ब्रह्मविद्या तथा ब्रह्मविद्याप्रतिवादकं वेदशिरोभागरूपं वेदान्त-
शास्त्रम् । यथा ऐतरेयकठवल्लीशावास्यकेनप्रश्ना इत्यादि । अत्र व्युत्पत्तिः सेयं
ब्रह्मविद्योपनिषच्छब्दवाच्या तत्पराणां सहेतोः संसारस्यात्यन्तावसादनात् । उपनिपूर्वस्य
सदेस्तदर्थत्वात् तादर्थ्याद्ग्रन्थोऽप्युपनिषदुच्यते (बृ० आ० उपो० शा० भा०) । यथा
च - उपसमीपे प्रत्यगात्मानमव्यवधानेन ब्रह्म गमयतीत्युपनिषन्महावाक्योत्त्था
ब्रह्मविद्या, ब्रह्मप्रत्यगात्माभेदेन वेदयतीति वेदोऽपि सैव सा च महावाक्यैकनिबन्धनेति
श्रुतिशिरसि वेदान्तभागे निविष्ट उपनिषदिति शब्दो वेदशब्दश्चात्र महावाक्ये योज्यतामिति
योजना (सं० शा० ३।२९८ अ० टी०) । यथा च - सदेरुपनिपूर्वस्य संसारविनाशार्थस्य
ब्रह्मगत्यर्थस्याविद्यादिबन्धशिथिलीकरणार्थस्य च ब्रह्मज्ञानमन्तरेणासम्भवादुपनिषद्
ब्रह्मज्ञानं तस्य पदं विषयः (ब्रह्मोपनिषन्मन्त्रः ४ दीपिकाटीकायाम् ) । यथा च -
 
अत्र चोपनिषच्छ्रब्दो ब्रह्मविद्यैकगोचरः ।
तच्छब्दावयवार्थस्य विद्यायामेव सम्भवात् ॥ ३॥
उपोपसर्गः सामीप्ये तत्प्रतीचि समाप्यते ।
सामीप्यतारतम्यस्य विभ्रान्तेः स्वात्मनीक्षणात् ॥४॥
त्रिविधस्य सदर्थस्य निशब्दोऽपि विशेषणम् ।
उपनीयेयमात्मानं ब्रह्मापास्तद्वयं यतः ॥ ५॥
निहन्त्यविद्यां तज्जं च तस्मादुपनिषद् भवेत् ।
निहन्त्यानर्थमूलं सा विद्या प्रत्यकृतया परम् ॥६॥
गमयत्यस्तसम्भेदमतो बोपनिषद् भवेत् ।
प्रवृत्तिहेतून् निश्शेषाँस्तन्मूलोच्छेदकत्वतः ॥७॥
यतोऽवसादयेद् ब्रह्म तस्मादुपनिषद् भवेत् ।
यथोक्तविधो हेतुत्वाद् ग्रन्थोऽपि स तद्भेदतः ॥ ८ ॥
भवेदुपनिषन्नामा लाङ्गलं जीवनं यथा ।
ऐकात्म्यविषयान्नान्यो वेदान्तवचसां यतः ॥ ९॥
 
लभ्यते विषयः कच्चित्तस्मात् तद्धीस्तमोपनुत् ।
 
स चात्मोत्पत्तितो नान्यद् ध्वान्तध्वस्तावपेक्षते ॥ १०॥ (बृ० आ० उ० शा० भा०
 
वा० सारे अ० १ अधिकारिपरीक्षायां श्लो० ३-१०) ।