2023-03-12 05:00:42 by ambuda-bot
This page has not been fully proofread.
शाङ्कुरवेदान्तकोशः
व्याप्तिपक्षधर्मताज्ञानयोरुत्पत्त्या अनुमितिसम्भवाद् उपनयनिगमनयोरावश्यकता
नास्ति । अथवा - उदाहरणोपनयनिगमनैरेव अनुमितिसम्भवाद् न प्रतिज्ञाहेतु-
वाक्ययोरुपयोग इति । शास्त्रदीपिकायामप्येतदेवमुक्तम् । २. उपनयनम् यज्ञोपवीत-
संस्कारः । उपनीय तु यः शिष्यान् इति मनुस्मृतौ । उप समीपे नयनम् । ३. उपनीयते
उपस्थाप्यते ज्ञानविषयतामापाद्यते येनेति उपनयः ज्ञानलक्षणाप्रत्यासत्तिः ज्ञानलक्षण-
सन्निकर्षो वा । अयं च इन्द्रियसंयुक्तमनः संयुक्तान्यसमवेतस्मृतिविषयत्वरूपः ।
तेन सुरभि चन्दनमित्यस्य प्रत्यक्षता इति नैयायिकाः । अद्वैतिन एतन्न मन्यन्ते ।
यथा - सुरभि चन्दनमित्यादिज्ञानमपि चन्दनखण्डांशे अपरोक्षं सौरभांशे तु परोक्षम् ।
सौरभस्य चक्षुरिन्द्रियागोचरतया योग्यत्वघटितस्य निरुक्तलक्षणस्याभावात् ।
नचैकमेकत्र ज्ञाने परोक्षत्वापरोक्षत्वयोरभ्युपगने तयोर्जातित्वं न स्यादिति वाच्यम् ।
इष्टत्वात् । जातित्वोपाधित्वपरिभाषायाः सकलप्रमाणागोचरतया अप्रामाणिकत्वात् ।
घटोऽयमित्यादिप्रत्यक्षं हि घटादिसद्भावे मानं न तु तस्य जातित्वेऽपि । अतोऽद्वैतमते
चन्दनांशे प्रत्यक्षत्वम् चन्दनखण्डरूपलिङ्गात् सौरभांशेऽनुमितित्वम् । एवमेव मधुरम्
आम्रफलमित्यत्रापि (वे० प० १५०) ।
-
१३६
-
उपनीतम् - अलौकिकेन ज्ञानलक्षणसन्निकर्षेण ज्ञानलक्षणाप्रत्यासत्त्या वा प्राप्तं
प्रत्यक्षज्ञानम् । यथा सुरभिचन्दनमित्यत्र चन्दनस्येव सौरभस्यापि प्रत्यक्षता, मधुरम्
आम्रफलमित्यत्र च आम्रफलस्येव माधुर्यस्यापि प्रत्यक्षता ।
-
उपनीतभानम् - उपनीतविषयकं ज्ञानम् । इदं लौकिकालौकिकसन्निकर्षजन्यं
ज्ञानम् । यथा सुरभिचन्दनमित्यत्र चन्दनांशे लौकिकसन्निकर्षेण तथा सौरभांशे-
ऽलौकिकसन्निकर्षेण (उपनयेन) प्रत्यक्षतेति नैयायिकमतम् । अत्रायं विमर्शो यद्यथा
चन्दनांशे लौकिको चक्षुरिन्द्रियसन्निकर्षस्तथा सौरभांशे लौकिकचक्षुरिन्द्रिय-
सन्निकर्षो नास्ति । किन्तु अलौकिको ज्ञानलक्षणसन्निकर्षोऽस्ति । येन चन्दनखण्डम्,
सौरभम्, अनयोः समवायसम्बन्धः इमे त्रयोऽपि प्रत्यक्षज्ञानविषया भवन्ति । अत्रेयमा-
शङ्का यद् गन्धस्य ज्ञानं स्मृतिरूपमथवा प्रत्यक्षरूपम् । स्मृतिरूपं वक्तुं न शक्यते ।
यतो हि अन्यचन्दनखण्डस्य सौरभं प्रत्यक्षीकृतं न तु वर्तमानचन्दनखण्डस्य । अतो
वर्तमानचन्दनखण्डं सौरभं न स्पर्तुं शक्यते । सौरभस्य चाक्षुषं प्रत्यक्षं न भवति घ्राणजमेव
भवति । अतः प्रत्यक्षतापि नास्ति । अतोऽद्वैतिनोऽत्र चन्दनं सुरभि चन्दनखण्डत्वात्
इतरचन्दनखण्डवत् इत्यनुमानेन सौरभांशे परोक्षत्वं मन्यन्ते ।