2023-03-12 05:00:41 by ambuda-bot
This page has not been fully proofread.
शाङ्कुरवेदान्तकोशः
१३५
उपद्रष्टा - साक्षी (आत्मा) यथा - उपद्रष्टानुमन्ता चं भर्ता भोक्ता महेश्वरः ।
परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः (गी० १३।२२) । अत्र शाङ्करभाष्ये-
उपद्रष्टा समीपस्थः सन् द्रष्टा स्वयम् अव्यापृतो यथा ऋत्विग् यजमानेषु यज्ञकर्म-
व्यापृतेषु तटस्थः अन्यः अव्यापृतो यज्ञविद्याकुशल ऋत्विग् यजमानव्यापार-
गुणदोषाणामीक्षिता तद्वत् कार्यकरणव्यापारेषु अव्यापृतः अन्यो विलक्षणः तेषां
कार्यकरणानां सव्यापाराणां सामीप्येन द्रष्टा उपद्रष्टा । अथवा देहचक्षुर्मनोबुद्ध्यात्मानो
द्रष्टारः तेषां बाह्यो द्रष्टा देहः तत आरभ्य अन्तरतमः च प्रत्यक् समीप आत्मा यतः
परो अन्तरो न अस्ति द्रष्टा स अतिशयसामीप्येन द्रष्टृत्वात् उपद्रष्टा स्यात् ।
यज्ञोपद्रष्टृवद् वा सर्वविषयीकरणाद् उपद्रष्टा (शा० भा० ) । यथा च अस्मिन्
प्रकृतिकार्ये देहे च वर्तमानोऽपि पुरुषः परो भिन्न एव न तद्गुणैर्युज्यत इत्यर्थः ।
तत्र हेतवः - यस्मादुपद्रष्टा पृथग्भूत एव समीपं स्थित्वा द्रष्टा - साक्षीत्यर्थः (तत्रैव
श्रीधर्याम्) । यथा च – योऽयं प्रजानामुपद्रष्टा प्रविष्ट: (श० प० ब्रा० ३।४।२।५)।
-
-
उपधेयः – १ . यत् किञ्चिद्धर्मविशिष्टो धर्मी । यथा उपधेयसंकरेऽप्युपाध्यसंकरा-
दित्यादौ । अत्रेदमुदाह्वियते वायुः गन्धवान् स्नेहादित्यादावुपधेयस्य दोषाश्रयस्य धर्मिणः
स्नेहादेर्हेतोः संङ्करेऽपि (ऐक्येऽपि) उपाधीनां व्यभिचारविरोधादिरूपदोषात्मकधर्माणाम-
सांकर्यात् (भेदेन प्रतीयमानत्वात्) स्नेहादौ पृथक् तत्र दोषव्यवहार उपपद्यत
इति । एवमन्यत्राप्यूह्यम् । २. मन्त्रविशेषेण स्थापनीय इष्टिकादिरिति याज्ञिका आहुः
(वाच०) ।
-
उपनयः– १ . न्यायावयवः । परार्थानुमाने प्रतिज्ञाहेतूदाहरणप्रदर्शनानन्तरं तथा
चायमित्युपनयः । यथा - प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चावयवाः । पर्वतो
वह्निमानिति प्रतिज्ञा । धूमत्वादिति हेतुः । यो यो धूमवान् स स वह्निमान् यथा
।
महानसमित्युदाहरणम् । तथा चायमित्युपनयः । तस्मात्तथेति निगमनम् (त० सं०
अ० ख०) यथा च - तच्चानुमानं स्वार्थपरार्थभेदेन द्विविधम् । तत्र स्वार्थं तूक्तमेव
परार्थं तु न्यायसाध्यम् । न्यायो नामावयवसमुदायः । अवयवाश्च त्रय एव प्रसिद्धा:-
प्रतिज्ञाहेतूदाहरणरूपाः, उदाहरणोपनयनिगमनरूपा वा । न तु पञ्चावयवरूपाः ।
अवयवत्रयेणैव व्याप्तिपक्षधर्मतयोरूपदर्शनसम्भवेन अधिकावयवद्वयस्य व्यर्थत्वात्
(वे०प०२ प०) । अयं भावः- नैयायिकमते परार्थानुमाने प्रतिज्ञाहेतूदाहरणोप-
नयनिगमनानि पञ्चावयवा अपेक्ष्यन्ते । अत्र अद्वैतिनो वदन्ति - अनुमाने साध्यनिर्देशरूप-
प्रतिज्ञया यो यो धूमवान् स सोऽग्निमान् इत्युदाहरणेन धूमादिति हेतूपन्यासेन च