This page has been fully proofread once and needs a second look.

१३४
 
शाङ्कुरवेदान्तकोशः
 
¡
 
वर्जितम् (मैत्रा० उप6 ४।६) । लयविक्षेपरहितं मनः कृत्वा सुनिश्चितम् । यदा

यात्युन्मनीभावं तदा तत्परमं पदम् (तत्रैव ४।७) । तथा - यजुर्वेदीयमैत्र० आरण्यके

६।३४।७) यो मनः सुस्थिरो भावः । सैवावस्था मनोन्मनी (शाण्डिल्योपनिषद्

१ ।२।१०) । काष्ठवज्जायते देह उन्मन्यावस्थया ध्रुवम् । न जानाति स शीतोष्णं न

दुःखं न सुखं तथा (नादबिन्दुः उप० ५३) । लयविक्षेपरहितं मन कृत्वा सुनिश्चलम् ।

यदा यात्युन्मनीभावं तदा तत्परमं पदम् । (ब्रह्मबिन्दुः उप० ४) कर्पूरमनले यवत्

सैन्धवं सलिले यथा । तथा च लीयमानं सन् मनस्तत्त्वे विलीयते । ज्ञेयं सर्वप्रतीतं च

तज्ज्ञानं मन, उच्यते । ज्ञानं ज्ञेयं समं नष्टं नान्यः पन्थाः द्वितीयकः । ज्ञेयवस्तुपरित्यागाद्

विलयं याति मानसम् । मानसे विलये याते कैवल्यमवशिष्यते । द्वौ क्रमौ चित्तनाशस्य

योगो ज्ञानं मुनीश्वर । योगस्तद्वृत्तिनिरोधो हि ज्ञानं सम्यगवेक्षणम् (शाण्डिल्योप-

निषदि १/२/२१-२४) तदेवार्थमात्रनिर्भाभं स्वरूपशून्यमिव समाधिः (यो० सू०

३ । ३) । अद्वैतवेदान्तस्य परमाचार्यगुरुगौडपादविरचितमाण्डूक्योपनिषत्कारिकाग्रन्थे

अमनस्कयोगः सुविशदं वर्णितः । यथा - मनोदृश्यमिदं द्वैतं यत् किञ्चित् सचराचरम् ।

मनसो ह्यमनीभावे द्वैतं नैवोपलभ्यते । आत्मसत्यानुबोधेन न सङ्कल्पयते यदा । अमनस्तां

तदा याति ग्राह्याभावे तदग्रहम् । निगृहीतस्य मनसो निर्विकल्पस्य धीमतः । प्रचारः

स तु विज्ञेयः सुषुप्तेरन्यो न तत्समः (मा० उप० का० ३।३१-३३) । ऋग्वेदे दशमण्डले

अष्टपञ्चाशततमम् (५८) सूक्तं मनः सूक्तं कथ्यते । तत्र एवंविधाः एकादशमन्त्राः

सन्ति । यथैको मन्त्रः – यत्ते यमं वैवस्वतं मनो जगाम दूरकम् । तत आवर्तयाम-

सीह क्षयाय जीवसे (तत्रैव- म० १)। यथा च - चित्तं प्रवर्तते चित्रं चित्तमेव

विमुच्यते । चित्तं हि जायते नान्यच्चित्तमेव निरुध्यते । (लङ्कावतारसूत्रे १०/१४५)

तन्त्रशास्त्रे योगदर्शनदृशा अपरो विशिष्टोऽर्थः । स तु नात्र वितन्यते ।
 
-
 
-
 

 
उपचारः, उपचार
१ . कर्तव्यः । यथा - अजमनिद्रमस्वप्नमनामकरूपकम् । सकृद्विभातं

सर्वज्ञं नोपचारः कथंचन (मा० उ० गौ० पा० का० ३।३६) । ब्रह्मज्ञाने सति अन्यः

कोऽपि उपचारः कर्तव्य उपायो नावशिष्यते । २. द्वयोः परस्परभिन्नयोः पदार्थयोः

सादृश्यसम्बन्धेन अभेदज्ञानम् । यथा- उभयरूपा चेयं (लक्षणा) शुद्धा उपचारेणा-

मिश्रितत्वात् (का० प्र० २ । १० । १३) । अत्र उपचारपदार्थो यथा - उपचारो

हि नाम अत्यन्तं विशकलितयोः पदार्थयोः सादृश्यातिशयमहिम्नाभेदप्रतीति-
·

स्थगनमात्रम् । (तत्रैव)
 
.