This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
तमसो भवति य एवं वेद (छा० उ० १ ।३।१) । २. सोमयागादिकर्मणि अध्वर्युः

होता उद्गाता च भवन्ति । एतेषां कर्म भिन्नं भिन्नं भवति । उद्गाता साम-

मन्त्रगानं करोति ।
 

 
उद्गीथः - , उद्गीथः
१. प्रणवः । यथा- य उद्गीथः स प्रणवः स उद्गीथः (छा०

उप० १।५।१ ) । २. प्राण:- यथा उद्गीथः प्राणो वा । उप्राणेन हीदं सर्वमुत्तब्धं

वागेव गीथोच्च गीथा चेति स उद्गीथः (बृ० उप० १ । ३ । २३) । अत्र शाङ्करभाष्ये-

उद्गीथो नाम सामावयवो भक्तिविशेषो नोद्गानम् । सामाधिकारात् । कथमुद्गीथः

प्राणः । प्राणो वा उत्प्राणेन हि यस्मादिदं स्तब्धमुत्तम्भितं विधृतमित्यर्थः । ..... वागेव

गीथाशब्दविशेषत्वादुद्गीथभक्तेः । गायतेः शब्दार्थत्वात् सा वागेव । ..... उच्च प्राणो

गीथा च प्राणतन्त्रा वागित्युभयमेके न शब्देनाभिधीयते स उद्गीथः ।
 
-
 
.....
 
-
 

 
उद्गीथम् - , उद्गीथ
१. उद्गीथं कर्म । यथा - यदा च तदुद्गीथं कर्माजिहीर्षवस्तदा-

नेह नासिक्यम् अतस्तादर्थ्येन कर्माहृतवन्त इति युक्तमेवोक्तम् । (असुरा

उद्गीथकर्म उद्गातृकर्म कृतवन्तः) शब्दब्रह्म - यस्य ब्रह्मणः सम्बन्धि उर्ध्वमशेष-

विश्वाभेदात्मकतया उत्कृष्टतया गीयते विमृश्यते इत्युद्गीथः प्रणवोन्मेषात्मकशब्द-

ब्रह्मरूपः प्रणवो ध्वनिः । (साम्बपञ्चाशिकायाः १ श्लो० क्षेमराजटीकायाम् । अत्र

शब्दब्रह्मतया उद्गीथशब्दः प्रयुक्तोऽत उद्गीथमिति नपुंसकलिङ्गं व्यवहृतम् ।
 
-
 
...
 
-
 

 
उद्भिज्जम् - , उद्भिज्जम्
वृक्षादिशरीरम्, पापकर्मफलभोगायतनम् । यथा - उद्भिज्जानि

भूमिमुद्भिद्य जातानि वृक्षादीनि । वृक्षादीनामपि पापफलभोगायतनत्वेन शरीरत्वम्

(वे० प० ७ प०) । यथा च चतुर्विधशरीराणि तु जरायुजाण्डजोद्भिज्जस्वेदजानि ।

उद्भिज्जानि भूमिमुद्भिद्य जातानि (वे० सा०) । यथा च - अपि च चतुर्विधे

भूतग्रामे .... ननु तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्ति । आण्डजं

जीवजमुद्भिज्जम् (छा० ६।३।१ ) इत्यत्र त्रिविध एव भूतग्रामः श्रूयते, कथं चतुर्विधत्वं

भूतग्रामस्य प्रतिज्ञातमिति । अत्रोच्यते ..... तृतीयेन उद्भिज्जशब्देनैव स्वेदजोपसंग्रहः

कृतः प्रत्येतव्यः (ब्र० सू० ३/१/२०, २१ शा० भा० ) ।
 

 
उद्वेगः, उद्वेग
सन्तापः = यथा - यस्मान्नोविजते लोको लोकान्नोद्विजते तु यः

(गी० १२/१५) । अत्र शाङ्करभाष्ये- न उद्वेगं गच्छति न सन्तप्यते न संक्षुभ्यते

लोकः । यथा च - उद्वेगो भयादिनिमित्तचित्तक्षोभः (तत्रैव श्रीधर्याम्)
 

 
उन्मनीभावः - , उन्मनीभाव
अमनस्ता, मनःक्षयः, मनोनाशः मनोलयः । अचित्तता आदि ।

यथा – मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च । अशुद्धं कामसम्पर्काच्छुद्धं वै काम-