This page has been fully proofread once and needs a second look.

१३२
 
शाङ्करवेदान्तकोशः
 
ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति तेषां न पुनरावृत्तिः (बृ० उ० ६/२/१५)।

अत्र शाङ्करभाष्ये षड्डुत्तरायणदेवताः । तेभ्यो मासेभ्यः षण्मासदेवताभिरतिवाहिता

देवलोकाभिमानिनीं देवतां प्रतिपद्यन्ते । देवलोकादादित्यमादित्याद् वैद्युतं विद्युदभि-

मानिनीं देवतां प्रतिपद्यन्ते । विद्युद्देवतां प्राप्तान् ब्रह्मलोकवासी पुरुषो ब्रह्मणा मनसा

सृष्टो मानसः कश्चिदेत्यागत्य ब्रह्मलोकान् गमयति । ....तेषां ब्रह्मलोकं गतानां नास्ति

पुनरावृत्तिरस्मिन् संसारे न पुनरागमनमिहेति ।
 
-
 

 
उत्पत्तिः - , उत्पत्ति
यथा - अस्य जगतो नामरूपाभ्यां व्याकृतस्य (ब्र० सू० १ । १ । २

शा० भा० ) । अत्र भामत्याम्- चेतनो हि बुद्धावालिख्य नामरूपे घट इति नाम्ना

रूपेण च कम्बुग्रीवादिना वाह्यं घटं निष्पादयति । अत एव घटस्य निर्वर्त्यस्याप्यन्तः

सङ्कल्पात्मना सिद्धस्य कर्मकारकभावो घटं करोति ।
 
-
 

 
उत्पाद्यम् - , उत्पाद्य
क्रियातः उत्पाद्यं कार्यं निष्पाद्यं निर्वत्यं च भवन्ति । ब्रह्म च न

उत्पाद्यम् । यथा- योऽसावुपनिषत्स्वेवाधिगतः पुरुषोऽसंसारी उत्पाद्यादि-

चतुर्विधद्रव्यविलक्षणः स्वप्रकाशोऽनन्यशेषः (ब्र० सू० १/१/४ शा० भा० ) । अत्र

भामत्याम् - उत्पत्यादिभिराप्यं साध्यम् ।
 
-
 

 
उदरम् - ,उदर
उद् = अपि अरम् = भेदम् (भेदः) । यथा- यदाह्येवैष एतस्मिन्नुदरमन्तरं

कुरुते । अथ तस्य भयं भवति । तत्त्वेव भयं विदुषोऽमन्वानस्य (तै० २।७।१) अत्र

वेदान्तकल्पतरौ– एषोऽधिकृतः पुरुषः एतस्मिन् आत्मनि उद् अपि अरम् अल्पम्

अन्तरं भेदम् । अल्पमपि भेदं यदा कुरुते अथ तदा तस्य भयं भवति ।
 
-
 

 
उदासीनः- , उदासीन
१ . विरक्तो रागद्वेषादिरहितो यतिः । यथा - उदासीनो न कस्यचिद्

मित्रादेः पक्षं भजते यः स उदासीनो यतिः (गी० १२/१६ शा० भा०) । यथा च -

पक्षपातरहितः (तत्रैव श्रीधर्याम्) । २. उद् उर्ध्वम् आसीनः । अर्थाद् इन्द्रिय-

विषयेभ्यः परः । ब्रह्मस्थितः ।
 
-
 

 
उद्गाता - , उद्गातृ
१. यः ॐ इति उद्गायति स उद्गाता इत्युच्यते । यथा- तेनेयं

त्रयी विद्या वर्तत ओमित्याश्रावयत्योमिति श५ सत्योमित्युद्गायत्येतस्यैवाक्षरस्यापचित्यै

महिम्ना रसेन (छा० उ० १।१।९) । अथाधिदैवतं च य एवासौ तपति तमुद्गीथ-

मुपासीतोद्यन्वा एष प्रजाभ्य उद्गायति । उद्य स्तमोभयमपहन्त्यपहन्ता ह वै भयस्य