This page has not been fully proofread.

१३२
 
शाङ्करवेदान्तकोशः
 
ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति तेषां न पुनरावृत्तिः (बृ० उ० ६/२/१५)।
अत्र शाङ्करभाष्ये षड्डुत्तरायणदेवताः । तेभ्यो मासेभ्यः षण्मासदेवताभिरतिवाहिता
देवलोकाभिमानिनीं देवतां प्रतिपद्यन्ते । देवलोकादादित्यमादित्याद् वैद्युतं विद्युदभि-
मानिनीं देवतां प्रतिपद्यन्ते । विद्युद्देवतां प्राप्तान् ब्रह्मलोकवासी पुरुषो ब्रह्मणा मनसा
सृष्टो मानसः कश्चिदेत्यागत्य ब्रह्मलोकान् गमयति । ....तेषां ब्रह्मलोकं गतानां नास्ति
पुनरावृत्तिरस्मिन् संसारे न पुनरागमनमिहेति ।
 
-
 
उत्पत्तिः - यथा - अस्य जगतो नामरूपाभ्यां व्याकृतस्य (ब्र० सू० १ । १ । २
शा० भा० ) । अत्र भामत्याम्- चेतनो हि बुद्धावालिख्य नामरूपे घट इति नाम्ना
रूपेण च कम्बुग्रीवादिना वाह्यं घटं निष्पादयति । अत एव घटस्य निर्वर्त्यस्याप्यन्तः
सङ्कल्पात्मना सिद्धस्य कर्मकारकभावो घटं करोति ।
 
-
 
उत्पाद्यम् - क्रियातः उत्पाद्यं कार्यं निष्पाद्यं निर्वत्यं च भवन्ति । ब्रह्म च न
उत्पाद्यम् । यथा- योऽसावुपनिषत्स्वेवाधिगतः पुरुषोऽसंसारी उत्पाद्यादि-
चतुर्विधद्रव्यविलक्षणः स्वप्रकाशोऽनन्यशेषः (ब्र० सू० १/१/४ शा० भा० ) । अत्र
भामत्याम् - उत्पत्यादिभिराप्यं साध्यम् ।
 
-
 
उदरम् - उद् = अपि अरम् = भेदम् (भेदः) । यथा- यदाह्येवैष एतस्मिन्नुदरमन्तरं
कुरुते । अथ तस्य भयं भवति । तत्त्वेव भयं विदुषोऽमन्वानस्य (तै० २।७।१) अत्र
वेदान्तकल्पतरौ– एषोऽधिकृतः पुरुषः एतस्मिन् आत्मनि उद् अपि अरम् अल्पम्
अन्तरं भेदम् । अल्पमपि भेदं यदा कुरुते अथ तदा तस्य भयं भवति ।
 
-
 
उदासीनः- १ . विरक्तो रागद्वेषादिरहितो यतिः । यथा - उदासीनो न कस्यचिद्
मित्रादेः पक्षं भजते यः स उदासीनो यतिः (गी० १२/१६ शा० भा०) । यथा च -
पक्षपातरहितः (तत्रैव श्रीधर्याम्) । २. उद् उर्ध्वम् आसीनः । अर्थाद् इन्द्रिय-
विषयेभ्यः परः । ब्रह्मस्थितः ।
 
-
 
उद्गाता - १. यः ॐ इति उद्गायति स उद्गाता इत्युच्यते । यथा- तेनेयं
त्रयी विद्या वर्तत ओमित्याश्रावयत्योमिति श५ सत्योमित्युद्गायत्येतस्यैवाक्षरस्यापचित्यै
महिम्ना रसेन (छा० उ० १।१।९) । अथाधिदैवतं च य एवासौ तपति तमुद्गीथ-
मुपासीतोद्यन्वा एष प्रजाभ्य उद्गायति । उद्य स्तमोभयमपहन्त्यपहन्ता ह वै भयस्य