2023-03-21 10:26:22 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
१३१
सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः ।
अचित्यशक्तिश्च विभोर्विधिज्ञाः षडाहुरङ्गानि महेश्वरस्य (ब्र० सू० भाम० मङ्गलाचरण-
श्लोके - वे० क० त० व्याख्यायाम् ) ।
-
उक्थम्
१. प्राणः । यथा - अहमुक्थमस्मीति विद्यात् (ऐ० आ० २।१।२।६
ब्र०सू० १/१ ।७ शा० भा०) । अत्र वेदान्तकल्पतरौ - उक्थं प्राण । इति । यथा च -
उक्थं प्राणो वा उक्थं प्राणो हीद ॐ सर्वमुत्थापत्युद्धास्मादुक्थविद् वीरस्तिष्ठत्युक्थस्य
सायुज्य & सलोकतां जयति य एवं वेद (बृ० आ० उ० ५/१३/१) । २. शस्त्र-
विशेषः । यथा च - महत्युक्थे शस्त्रविशेषे मीमांसन्ते (ब्र० सू० ३।३।४ वे० क०
त० ) । शस्त्रं यज्ञकर्माङ्गविशेषः ।
उत्क्रान्तिः
जीवस्य देहाद् अपसृतिः । यथा- उत्क्रान्तिस्तावत्- स यदास्माच्छरी-
रादुत्क्रामति सहैवैतैः सर्वैरुकामति (कौषीत० ३।३) इति । गतिरपि च- ये वै के
चास्माल्लोकात् प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति (कौषीत० १२) इति आगतिरपि
च तस्माल्लोकात् पुनरेत्यस्मै लोकाय कर्मणे (बृ० उ० ४।४।६) इति । आसामुक्कान्ति-
गत्यागतीनां श्रवणात्परिच्छिन्नस्तावज्जीव इति प्राप्नोति । न हि .... निरस्तत्वादणुरात्मेति
गम्यते (ब्र० सू० २।२।१९ शा० भा०) । अत्र भामत्यामुत्क्रमणं हि मरणे निरूढम् ।
तच्चाचलतोऽपि तत्र सतो देहस्वाम्यनिवृत्त्योपपद्यते । न तु गत्यागती । अत्र वेदान्त-
कल्पतरौ देहस्वामित्वं हि देहाभिमान इत्युक्तमध्यासे । तदेव च जीवनं तन्नि-
वृत्तिश्च मरणम् । तत्रैव कल्पतरुपरिमले - उत्क्रान्तिर्देहादपसृतिरूपा ।
-
-
उत्तरमीमांसा
दर्शनशास्त्रम्, वेदान्तः, उत्तरस्य वेदशेषभागस्योपनिषद्द्रूपस्य
मीमांसा पञ्चाङ्गन्यायोपेतवाक्यसमुदायात्मको विचारः । यथा अथातो ब्रह्मजिज्ञासा
(ब्र०सू० १।१ ।१ ) इत्यारभ्य अनावृत्तिः शब्दादनावृत्तिः शब्दात् । (ब्र०सू०४।४।२३)
इत्येतावान् अध्यायचतुष्टयात्मकः सत्यवतीसुतव्यासकृतो ब्रह्मविचारः ।
-
-
उत्तरायणम्
देवयानम्, अर्चिमार्गः ज्योतिर्मार्ग धूममार्ग इत्यादि । एकस्मिन्
वर्षे षण्मासा उत्तरायणम् षण्मासा दक्षिणायनमुच्येते । उत्तरायणे मृताः देवयानेऩ
ज्योतिरभिमानिदेवैः ब्रह्मलोकं प्राप्नुवन्ति ततो न पुनरावर्तन्ते । यथा - ते य एवमेत्
विदुर्ये चामी अरण्ये श्रद्धा ॐ सत्यमुपासते तेऽर्चिभिरभिसम्भवन्त्यर्चिषोऽहरह
आपूर्यमाणपक्षमापूर्यमाणपक्षाद् यान् षण्मासानुदादित्य इति मासेभ्यो देवलोकं
देवलोकादादित्यमादित्याद् वैद्युतं तान् वैद्युतान् पुरुषो मानस एत्य ब्रह्मलोकान् गमयति ।