This page has not been fully proofread.

शाङ्कुरवेदान्तकोशः
 
-
 
प्राज्ञौ
 
ईश्वरप्राज्ञौ - यथा - समष्टिव्यष्ट्योरीश्वरप्राज्ञयोरभेदत्वं च तदानीमेतावीश्वर-
चैतन्यप्रदीप्ताभिरतिसूक्ष्माभिरज्ञानवृत्तिभिरानन्दमनुभवतः
 
(वे० सा० ) ।
वाभेदः ।
 
यथा च अनयोः समष्टिव्यष्ट्योर्वनवृक्षयोरिव जलाशयजलयोरिव
एतदुपहितयोरीश्वरप्राज्ञयोरपि वनवृक्षावच्छिन्नाकाशजलगतप्रतिबिम्बाकाशयोरिव
वाभेदः (त०) ।
 
१३०
 
ईश्वरसम्बन्धकाः - तस्मात् सत्यत्वे सम्बन्धानुपपत्तेराध्यासिक एव दृग्दृश्ययोः
सम्बन्ध इति ( अ० सि० दृ० दृ सम्बन्धभङ्गे) । अत्र दृग् इति चेतनस्तथा चेतयिता
सच ईश्वरोऽपि ।
 
-
 
-
 
....
 
ईश्वरसाक्षी - मायोपाधिकं चैतन्यमीश्वरसाक्षि । तदुपाधेर्मायाया अनादित्वात्
(वे० प० १ प०) । यथा च - ईश्वरसाक्षि तु मायोपहितं चैतन्यम् (तत्रैव) । यथा
च - अत्रोक्तं कूटस्थदीपे देहद्वयाधिष्ठानभूतं कूटस्थचैतन्यं स्वावच्छेदकस्य देहद्वयस्य
साक्षादीक्षणात् निर्विकारत्वाच्च साक्षीत्युच्यते । एवं जीवाद् विवेचितोऽयं साक्षी
न ब्रह्मकोटिरपि किन्त्वस्पृष्टजीवेश्वरविभागं चैतन्यमित्युक्तं कूटस्थदीपे ।
तत्त्वप्रदीपिकायामपि मायाशवलिते सगुणे परमेश्वरे केवलो निर्गुणः इति विशेषणानुपपत्तेः
सर्वप्रत्यग्भूतं विशुद्धं ब्रह्मजीवाभेदेन साक्षीति प्रतिपद्यते इत्युदितम् । कौमुद्यां
तु एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः
साक्षी चेता, केवलो निर्गुणश्च (श्वे० उ० ६।११) इति देवत्वादिश्रुतेः परमेश्वरस्यैव
रूपभेदः कश्चिद् जीवप्रवृत्तिनिवृत्त्योरनुमन्ता स्वयमुदासीनः साक्षी नाम .... परमेश्वर
इति सुषुप्त्युत्क्रान्त्यधिकरणे निर्णयोऽपि साक्षिपरः इत्युपवर्णितम् ।.... तत्त्वशुद्धावपि
यथा इदं रजतमिति भ्रमस्थले वस्तुतः शुक्तिकोट्यन्तर्गतोऽपीदमंशप्रतिभासतो
रजतकोटिस्तथा ब्रह्मकोटिरेव साक्षी प्रतिभासतो जीवकोटिरिति जीवस्य सुखादिव्यवहारे
तस्योपयोगः इत्युक्त्या अयमेव पक्षः समर्थितः । केचित्तु अविद्योपाधिको जीव एव
साक्षाद् द्रष्टृत्वात् साक्षी । लोकेऽपि ह्यकर्तृत्वे सति द्रष्टृत्वं साक्षित्वं प्रसिद्धम् ।
तच्चासङ्गोदासीनप्रकाशरूपे जीव एव साक्षात् सम्भवति । ... एको देवः .... द्वा
सुपर्णा... इति मन्त्रः... जीवान्तःकरणोभयपरो वा न कश्चिद् विरोधः ।...अन्ये तु
सतां जीव एव साक्षी । ... अन्तःकरणविशिष्टः प्रमाता तदुपहितः साक्षीतिभेदोपपत्तेः
इत्याहु: (सि० ले० सं० १ प०) ।