This page has not been fully proofread.

शाङ्करवेदान्तकोशः
 
मते मूलप्रकृतिरेव विक्षेपशक्तिप्राधान्येन माया ईश्वरोपाधिर्भवति आवरणशक्ति-
प्राधान्येन अविद्या जीवोपाधिः इति च जीवेश्वरः विभागः । यथा च - यद्यपि
सकलप्रपञ्चकारणं मायाशबलं सविशेषमीश्वररूपं ब्रह्म नमस्कार्यम् । (ब्र० सू० वे०
क० त० मङ्गलश्लो० २ क० त० प०) यथां च - तस्यैव ब्रह्मणो व्यावहारिक्याम्
ईशित्रीशितव्यविभागावस्थायामयमन्यः स्वभावो वर्ण्यते (ब्र० सू० ३।२।३८
शा० भा० ) ।
 
१२९
 
ईश्वरः – ईशितुं शीलमस्येति वरच्प्रत्यये ईश्वरः । ईशशब्दवदस्यार्थोऽनुसन्धेयः ।
 
-
 
-
 
ईश्वरत्वम् - मायावच्छिन्नं चैतन्यं परमेश्वरः, मायाया विशेषणत्वे ईश्वरत्व-
मुपाधित्वे साक्षित्वम् इति ईश्वरत्वसाक्षित्वयोर्भेदः । न तु धर्मिणोः ईश्वरतत्सक्षिणोः ।
सच परमेश्वर एकोऽपि स्वोपाधिभूतमायानिष्ठसत्त्वरजस्तमोगुणभेदेन ब्रह्मविष्णु-
महेश्वरेत्यादिशब्दवाच्यतां लभते (वे० प० १ प्र० ) । यथा च - इयं
समष्टिरुत्कृष्टोपाधितया विशुद्धसत्त्वप्रधाना । एतदुपहितं चैतन्यं सर्वज्ञत्व-
सर्वेश्वरत्वसर्वनियन्तृत्वादिगुणकमव्यक्तमन्तर्यामी जगत्कारणमीश्वर तिच
व्यपदिश्यते । सकलाज्ञानावभासकत्वात् यः सर्वज्ञः स सर्ववित् इति श्रुतेः (वे० सा० ) ।
यथा च - चिच्छायावेशतः शक्तिश्चेतनेव विभाति या । तच्छक्त्युपाधिसंयोगाद् ब्रह्मै-
वेश्वरतां व्रजेत् (प० ८० ३ । ४०) । यथा च - सत्त्वशुद्धविशुद्धिभ्यां मायाविद्ये च
ते मते । मायाबिम्बो वशीकृत्य तां स्यात् सर्वज्ञ ईश्वरः (त० १/१६) । यथा
च - ईशसूत्रविराड्वेधोविष्णुरुद्रेन्द्रवह्नयः । विघ्नभैरवमैरालमरिकायक्षराक्षसाः । विप्रक्षत्रिय-
विट्शूद्रा गवाश्वमृगपक्षिणः । अश्वत्थवटचूताद्या यवब्रीहितृणादयः । जलपाषाण-
मृत्काष्ठवासीकुद्दालकादयः । ईश्वराः सर्व एवैते पूजिताः फलदायिनः (त० ६।२०६,
२०७, २०८) । यथा च - विष्णोर्नाभिः समुद्भूतो वेधाः कमलजस्ततः । विष्णुरेवेश
इत्याहुर्लोके भागवता जनाः। शिवस्य पादावन्वेष्टुं शायशक्तस्ततः शिवः । ईशो
न विष्णुरित्याहुः शैवा आगममानिनः । पुरत्रयं साधयितुं विघ्नेशं सोऽप्यपूजयत् ।
विनायकं प्राहुरीशं गाणपत्यमते रताः । मायां तु प्रकृतिं विद्यात् मायिनं तु
महेश्वरम् । तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत् । (त० ६/११७, १८,
१९, २३)।
 
-
 
ईश्वरप्रणिधानम् - अभिहितानामनभिहितानां च सर्वासां क्रियाणां परमेश्वरे
परमगुरौ फलानपेक्षया समर्पणम् (पा० यो० सू० १ । २३ अर्थः) ।