This page has been fully proofread once and needs a second look.

१२८
 
शाङ्करवेदान्तकोशः
 
यथा च - ईश्वरः सर्वज्ञो नारायणाख्य ईशनशील: (गी० १५/१६ शा०भा०) ।

एवमेवात्र म० सू० भाष्यो० श्रीधर्यां च तथा सं० शा० ३।१४८ अ० टी०

प्रकटार्थकारमते जीवेश्वरयोरुभयोः प्रतिबिम्बत्वम् । मायायां चित्प्रतिबिम्ब ईश्वरः,

अविद्यायां चित्प्रतिबिम्बो जीवः । अत्र च मायाया आवरणविक्षेपशक्तिमद्भाग

एवाविद्येति प्रदेशप्रदेशिभावेन मायाविद्ययोर्भेदवादः । २. तत्त्वविवेककारमते शुद्धप्रधाना

मूलप्रकृतिः माया, मलिनसत्त्वप्रधाना अविद्या इति मायाविद्याभेदं परिकल्प्य मायाप्रतिबिम्ब

ईश्वरः अविद्याप्रतिबिम्बो जीव इति । ३. संक्षेपशारीरककारमते अविद्यायां चित्प्रतिबिम्ब

ईश्वरः अन्तःकरणे चिप्रतिबिम्बो जीव इति । ४. पञ्चदशीकारमते (चित्रदीपप्रकरणे)

चितः चातुर्विध्यं परिकल्प्य ब्रह्माश्रितसकलप्राणिधीवासनोपरक्ताज्ञाने प्रतिबिम्बितं

चैतन्यमीश्वरः । अन्तःकरणे प्रतिबिम्बितं चैतन्यं जीवः । अत्रोक्तं सिद्धान्तलेशसंग्रहे-

न च अन्तःकरणरूपेण द्रव्येण घटेनाकाशस्येव चैतन्यस्यावच्छेदसम्भवात् तदवच्छिन्नमेव

चैतन्यं जीवोऽस्तु इति वाच्यम् । इह परत्र च जीवभावेनावच्छेद्यचैतन्यप्रदेशस्य भेदेन

कृतहानाकृताभ्यागमप्रसङ्गात् । प्रतिबिम्बस्तु उपाधेर्गतागतयोः(गमनागमनयोः) अवच्छेद्यवत्

न भिद्यते इति प्रतिबिम्बपक्षे न दोषः । पञ्चदशीकारैः श्रीविद्यारण्यस्वामिभिः पुनः

स्वीये ब्रह्मानन्दग्रन्थे उक्तं यत् सुषुप्तिसंयोगात् माण्डूक्योक्त आनन्दमयो जीव इति ।

यदा हि जाग्रदादिषु भोगप्रदस्य कर्मणः क्षये निद्रारूपेण विलीनमन्तःकरणं

पुनर्भोगप्रदकर्मवशात् प्रबोधे घनीभवति तदा तदुपाधिको जीवो विज्ञानमय इत्युच्यते ।

स एव पूर्व सुषुप्तिसमये विलीनावस्थोपाधिकः सन् आनन्दमय इत्युच्यते । स एव

माण्डूक्ये सुषुप्तस्थान इत्यादिना दर्शितः । अत्र सौषुप्तजीवरूपानन्दमयस्य वस्तुत

ईश्वरत्वाभावेऽपि ईश्वराभेदविवक्षया तस्य ईश्वर- वचनं संगच्छते । पच्चदश्यां

चित्रपटदृष्टान्तेन यथा एक एव पट: शुभ्रः, घट्टितः लाञ्छितः रञ्जित

इत्यवस्थाचतुष्टयसम्पन्नस्तथैव एक एव परमात्मा मायोपाधिरहितः शुद्धः मायोपहितः

ईश्वरः अपञ्चीकृतभूतकार्य समष्टिसूक्ष्म शरीरोपहितो हिरण्यगर्भ :
 
·

पञ्चीकृतभूतकार्यसमष्टिस्थूलशरीरोपहितो विराट्पुरुषः इत्यवस्थाचतुष्टयं भजते ।

५. श्रीविद्यारण्यस्वामिनां दृग्दृश्यविवेकग्रन्थे चितस्त्रैविध्यमवलम्ब्य पारमार्थिक-

व्यावहारिकप्रातिभासिकभेदेन जीवत्रैविध्यमुपवर्ण्य ईश्वरः प्रसाधितः । ६. विवरण-

ग्रन्थानुसारमीश्वरो न प्रतिबिम्बरूपः नापि शुद्धं ब्रह्म बिम्बरूपम्, किन्तु अविद्याप्रतिबिम्बो

जीवः तद्बिम्बभूत ईश्वरः, उभयानुगतं शुद्धचैतन्यम् । ७. श्री वाचस्पतिमिश्रानुसारम् -

अन्तःकरणावच्छिन्नो जीवः तदनवच्छिन्नः किन्त्वविद्यावच्छिन्न ईश्वरः । केषाञ्चन
 
-