This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
-
 
इन्द्रियदेवता - , इन्द्रियदेवता
यथा - गुणाः सत्त्वरजस्तमांसि । एतैश्च सत्त्वगुणोपेतैः पञ्चभूतैः

पृथक्-पृथक् क्रमेण श्रोत्रत्वक्चक्षूरसनघ्राणाख्यानि पञ्चज्ञानेन्द्रियाणि जायन्ते । एतेभ्यः

पुनराकाशादिगतसात्त्विकांशेभ्यो मिलितेभ्यो मनोबुद्ध्यहङ्कारचित्तानि जायन्ते । श्रोत्रादीनां

पञ्चानां क्रमेण दिग्वातार्कवरुणाश्विनोऽधिष्ठातृदेवताः । मन आदीनां चतुर्णां क्रमेण

चन्द्रचतुर्मुखशङ्कराच्युता अधिष्ठातृदेवताः । एतैरेव रजोगुणोपेतैः पञ्चभूतैर्व्यस्तैर्यथाक्रमं

वाक्पाणिपादपायूपस्थाख्यानि कर्मेन्द्रियाणि जायन्ते । तेषां च क्रमेण वह्नीन्द्रोपेन्द्रमृत्यु-

प्रजापतयोऽधिष्ठातृदेवताः । रजोगुणोपेतैः पञ्चभूतैरेव मिलितैः पञ्च वायवःप्राणापान-

व्यानोदानसमानाख्या जायन्ते (वे० प० ७ प० ) ।
 
१२७
 

 
इन्द्रियार्थसन्निकर्षः - , इन्द्रियार्थसन्निकर्षः
प्रत्यक्षात्मकज्ञानहेतुरिन्द्रियस्य विषयेण सम्बन्धः । स च

सन्निकर्षः षोढा तर्कसंग्रहादौ द्रष्टव्यः ।
 

 
-
 

 
ईक्षणम् - , ईक्षण
यथा- चिदात्मनिष्ठाया जगदात्मिकाया आद्यो विवर्ती विकारः

परिणामविशेषः .....ईक्षणमुच्यते कथ्यते । ईश्वरस्य स्रष्टव्यविषयमालोचनमुच्यते

(सं० शा० ३ । २५२ ) । यथा च - निःश्वसितमस्य वेदा वीक्षितमेतस्य पञ्चभूतानि ।

स्मितमेतस्य चराचरमस्य च सुप्तं महाप्रलयः (ब्र० सू० भाम० मङ्गलाचरणे २) ।
 
-
 
-
 

 
ईशः - , ईश
१. ईश्वरो हिरण्यगर्भः । यथा - ईशो विशुद्धसत्त्वप्रधानमायोपाधिकः

परमेश्वरस्तत्र शरीरे अहमित्यभिमानेन हिरण्यगर्भता हिरणगर्भसंज्ञकत्वं प्रपद्यते

इत्यनुषङ्गः । तैजसहिरण्यगर्भयोर्लिङ्गशरीराभिमाने समाने सति तयोः परस्परं भेदः किं

निबन्धन इत्यत आह - तयोरिति । तयोस्तैजसहिरण्यगर्भयोः व्यष्टित्वं समष्टित्वं

भवति । अत एव भेदः (प० द० १ । २४ रा० टी०) । यथा च - ईश: ईश्वरो हिरण्यगर्भः

सर्वेषां लिङ्गशरीरोपाधिकानां तैजसानां स्वात्मतादात्यवेदनात् स्वात्मना तादात्यस्य

एकत्वस्य वेदनाज्ज्ञानात् समष्टेर्भवति । तत ईश्वरादन्ये जीवास्तु तदभावात् तस्य

तादात्म्यवेदनस्याभावाद् व्यष्टिसंज्ञया व्यष्टिशब्देन कथ्यते (त० २५) । यथा च -

ईशावास्यमिदम् (ई० उप० १) । २. परमेश्वरः परमात्मा च । यथा - ईशा ईष्टे

इतीट् तेनेशा । ईशिता परमेश्वरः परमात्मा सर्वस्य (तत्रैव शा० भा०) । यथा च -

ईशिता परमेश्वरः मायोपाधेरीशनकर्तृत्वसम्भवात् क्विबन्तशब्दवाच्यता न विरुद्ध्यते

निरुपाधिकस्य च लक्ष्यत्वं भविष्यतीत्यर्थः (त० आ० गि०) । निरतिशयज्ञानशक्त्यु-

पाधिरात्मान्तर्यामीश्वर उच्यते (बृ० आ० उ० ३।८।१२ शा० भा०) । यथा च – यत्र

यत्र विभूत्याद्यतिशयः स स ईश्वर इत्युपास्यतया द्योत्यते (ब्र० सू० १ । १ । ११ शा०भा०) ।
 
-
 
-