2023-03-21 10:15:38 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
इति – इत्थम्, ह = निश्चयेन, आस - बभूव (आस इति वैदिक-
प्रयोगः) । तेन पुरावृत्तप्रकाशको ग्रन्थविशेषो महाभारतादिः । यथा - वाको-
वाक्येतिहासपुराणः पञ्चमो वेदानां वेद इति ( छा० उप० ७ । १ । २ ) ।
१२६
-
इदन्द्रः
परमात्मा । यथा - इदन्द्रो नाम परमात्मा । इदन्द्रो ह वै नाम प्रसिद्धो
लोक ईश्वरः । तमेवमिदन्द्रं सन्तमिन्द्र इति परोक्षेण परोक्षाभिधानेनाचक्षते ब्रह्मविदः
(ऐ० उ० ३/१४ शा० भा० ) ।
-
-
इन्द्रियम् –
इन्द्रियम्, इन्द्रिय
इन्द्र आत्मा तस्य लिङ्गम् इन्द्रियम् । इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्ट-
मिन्द्रसृष्टमिन्द्रत्तमिति वा ।(पा० सू० ५।२।९३) इति सूत्रेण इन्द्रशब्दात् षष्ठीसमर्थाद्
लिङ्गमित्यर्थे घञ्प्रत्यये इन्द्रशब्दो निष्पन्नः । तच्च देहाधिष्ठानत्वे सति रूपाद्यालोचन-
करणत्वमिन्द्रियत्वम् (ब्र० सू० २/४/१७ वे० क० त० प०) परमात्मनः इन्द्रिय-
सृष्टिः । यथा – एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च (मु० उ० १ । ३) । यथा
च – मुख्यप्राणात् तत्त्वान्तराणीन्द्रियाणि । मृत्युप्राप्ताप्राप्तत्वलक्षणविरुद्धधर्मसंसर्गश्रुतेः
अर्थकियाभेदाच्च । देहधारणं हि प्राणस्य क्रियाथलोचनमनने चेन्द्रियाणाम्..
मनसश्चेन्द्रियत्वे स्मृतेरवगते क्वचिदिन्द्रियेभ्यो भेदेनोपादानं गोबलीवर्दन्यायेन । अथवा
इन्द्रियाणां वर्तमानत्वमात्रविषयत्वान् मनसस्तु त्रैकालगोचरत्वाद् भेदेनोपादानम् ( ब्र०
सू० २।४।१७ भाम०) अर्थक्रियाभेदाच्च । अर्थालोचनं बाह्येन्द्रियाणाम् । अर्थक्रिया..
मनसो मननम् (तत्रैव वे० क० त०) । तच्च दशविधम् - पञ्च ज्ञानेन्द्रियाणि पञ्च
कर्मेन्द्रियाणि । उक्तञ्च – स्यात् पञ्चीकृतभूतेत्थो देहः स्थूलोऽन्नसंज्ञकः । लिङ्गे
तु राजसैः प्राणैः प्राणः कर्मेन्द्रियैः सह । सात्त्विकैर्धीरिन्द्रियैः साकं विमर्शात्मा
मनोमयः । तैरेव साकं विज्ञानमयो धीर्निश्चयात्मिका । (प० द० १ । ३४,३५) इति
अद्वैतिनः । सांख्ये तु - सात्त्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात् । भूतादेस्तन्मात्रः
स तामसस्तैजसादुभयम् । बुद्धीन्द्रियाणि चक्षुःश्रोत्रघ्राणरसनस्पर्शकानि । वाकूपाणि-
पादपायूपस्थान् कर्मेन्द्रियाण्याहुः (सा० का० २५,२६) । न्याये तु - शब्देतरोद्भूत-
विशेषगुणानाश्रयत्वे सति ज्ञानकारणमनः संयोगाश्रयत्वमिन्द्रियत्वम् । तच्चैका-
दशविधम् पञ्चज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि एकमन्तःकरणं मन इति । यथा -
इन्द्रियं द्विविधम् । अन्तरिन्द्रियं बहिरिन्द्रियं च । तत्राद्यं मनः, द्वितीयं घ्राणादिपञ्च-
विधम् – घ्राणम्, रसनम्, चक्षुः, श्रोत्रम्, त्वक् चेत्यादि (वात्स्या० १/१।९) ।
विशेषज्ञानार्थमन्तःकरणशब्दे मनःशब्दे च द्रष्टव्यम् ।
...