2023-03-21 10:14:19 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
१२५
२. भक्ष्यपदार्थः भोजनं च ।
-
आहार्यज्ञानम्
आहार्यते आरोप्यते बुद्धिपूर्वकमिच्छापूर्वकं यज्ज्ञानं तद् आहार्य-
ज्ञानम् । यथा निर्बह्निः पर्वतो बह्निमान् इति ज्ञानं बह्न्यभाववति पर्वते बह्निप्रकारत्वात्
इच्छाप्रयोज्याच्च आहार्यम् । तच्च प्रत्यक्षमेव तदभाववत्त्वेन निश्चितेऽपि धर्मिणि
तद्द्बोधस्य इच्छाप्रयोज्यत्वात् । अपरोक्षज्ञानम् अनाहार्यज्ञानं निश्चयश् चेति । यथा च -
मुखं चन्द्रं पश्य इत्यत्र मुखे चन्द्राभेदज्ञानमाहार्यज्ञानम् ।
-
-
इच्छा -
इच्छा, इच्छा
१. अन्तःकरणभेदः । यथा - कामः संकल्पो विचिकित्सा श्रद्धा
अश्रद्धा धृतिरधृतिर्धीर्भीरित्येत्सर्वं मन एव (वृ० आ० उ० १ ।५।३) । इयं
द्विविधा - नित्या अनित्या च । ईश्वरेच्छा नित्या सर्वं जगद्भूयादिति । सोऽकामयत ।
भूरिति व्याहरत् । भूमिमसृजत । समूहालम्बनात्मिका च । जीवेच्छा अनित्या । २.
इच्छा चात्मधर्म इति । यथा - इच्छादयश्चाष्टी आत्ममात्रविशेषगुणा इति नैयायिकाः ।
पुनश्चेच्छा द्विविधा - फलविषयिणी तदुपायविषयिणी च । अत्र मुख्यं फलं सुखं दुःखा-
भावश्च । तत्र फलेच्छां प्रति फलज्ञानं कारणम् । अत एव फलस्य स्वतः पुरुषार्थत्वं
सम्भवति । ३ अन्तःकरणधर्मः- यथा- यज्जातीयं सुखहेतुमुपलब्धवान् पूर्वं
पुनस्तज्जातीयमुपलभमानस्तमादातुमिच्छति सुखहेतुरिति सेयमन्तःकरणधर्मो ज्ञेयत्वात्
क्षेत्रम् (गी० १३/६ शा० भा०) । यथा च - इच्छासुखे तत्साधने चेदं मे भूयादिति
स्पृहात्मा काम इति राग इति चोच्यते (तत्रैव म० सू०) । इच्छा अन्तःकरणधर्मरूपापि
उपचारादन्तःकरणमुच्यते । अत एवोक्तम्- ननु कामादेरन्तःकरणधर्मत्वेऽहमिच्छाम्यहं
जानाम्यहं विभेमीत्याद्यनुभव आत्मधर्मत्वमवगाहमानः कथमुपपद्यते । उच्यते अयः पिण्डस्य
दग्धृत्वाभावेऽपि दधृत्वाश्रयवह्नितादात्याध्यासात् यथा अयो दहति व्यवहारस्तथा
सुखाद्याकारपरिणाम्यन्तःकरणैक्याध्यासादहं सुखी दुःखीत्यादिव्यवहारः (वे० प० १
प०) । यथा च - इच्छा कामः (त० सं० श० प०) । अत्र गङ्गाटीकायाम् - इच्छाकामयोः
पर्यायतासूचनाय । लक्षणं तु प्रवृत्तेः साक्षादनुकूलत्वम् । ज्ञानवारणाय साक्षादिति ।
एवमहमिच्छामीति प्रत्यक्षसिद्धेच्छात्वजातिमत्त्वमिच्छासामान्यस्य लक्षणम् । इच्छा
द्विविधा - फलेच्छा उपायेच्छा च ।
-
-
इति -
इति, इति
१. इत्थम् २. समाप्तिसूचकः शब्दः ।
-