This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
-
 
आसुरीसम्पत् - , आसुरीसम्पत्
दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च । अज्ञानं चाभि-

जातस्य पार्थ सम्पदमासुरीम् (गी० १६।४) । असुरसम्बन्धिनी सम्पत्तिः = अज्ञानं

दम्भः दर्पःअभिमानः, क्रोधः, पारुष्यम्, हिंसा, क्रोधः, अनादरः । यथा - असुराणां

सम्पदासुरी तामभिजातस्येत्यर्थः (गी०१६।४ शा० भा०) । दर्पो दम्भोऽभिमानः क्रोधः

पारुष्यम् अज्ञानं चेति एंताम् आसुरीसम्पदमलिक्ष्य जातस्य भवन्ति हे पार्थ (तत्रैव

नी० क०) । आसुरीमसुररमणहेतुभूतां रजस्तमोमयीं सम्पदम् अशुभवासनासन्ततिं

शरीरारम्भकाले पापकर्मभिरभिव्यक्तामभिलक्ष्य जातस्य कुपुरुषस्य दम्भाद्या अज्ञानान्ता

दोषा एव भवन्ति न तु अभयाद्या गुणा इत्यर्थः (तत्रैव म० सू०) । आसुरीमसुराणां

सम्पदमभिलक्ष्य जातस्य दम्भादीन्यज्ञानानानि भवन्तीत्यनुषज्जते (तत्रैव भाष्यो० ) ।

असुराणां राक्षसानां च या सम्पत् ताम् आसुरीम् अभिलक्ष्य जातस्यैतानि दम्भादीनि

भवन्तीत्यर्थः । (तत्रैव श्रीधरी)
 
१२४
 
-
 

 
आस्तिकः - , आस्तिक
१. परलोकमतिकः । यथा - अस्ति परलोके मतिर्यस्य सः (अस्ति

नास्ति दिष्टं गतिः- पा० सू० ४।४।६०) २. नरकभीरुः । ३. वेदमन्ता । एतदन्यः

यथा - नास्तिको वेदनिन्दकः (म० स्मृ०) ।४: आस्तिकनामको मुनिः जरत्कारुमुनिपुत्रः

महाभारते प्रसिद्धः ।
 

 
आस्रवः, आस्रव
मिथ्याप्रवृत्तिः । (जैनदर्शनानुसारम्) यथा - तदेवं जीवाजीवपदार्थौ

पञ्चधा प्रपञ्चितौ । आस्रवसंवरनिर्जरास्त्रयः पदार्थाः प्रवृत्तिलक्षणाः प्रपञ्च्यन्ते । द्विधा

प्रवृत्तिः सम्यङ् मिथ्या च । तत्र मिथ्याप्रवृत्तिरास्रवः । सम्यक्प्रवृत्ती तु संवरनिर्जरौ ।

आस्रावयति पुरुषं विषयेष्वितीन्द्रियप्रवृत्तिरास्रवः । इन्द्रियद्वारा हि पौरुषं ज्योति-

विषयान् स्पृशद् रूपादिज्ञानरूपेण परिणमत इति । अन्ये तु कर्माण्यास्रवमाहुः । तानि

हि कर्तारमभिव्याप्य स्रवन्ति कर्तारमनुगच्छन्तीत्यास्रवः । सेयं मिथ्याप्रवृत्तिरनर्थ-

हेतुत्वात् । संवरनिर्जरौ तु सम्यक्प्रवृत्ती (ब्र० सू० २।३।३३ भाम० ) ।
 
-
 

 
आहारः, आहार
१ . आह्रियते इति आहारः शब्दादिविषयज्ञानम् । यथा - आहारशुद्धौ

सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः (छा० उ०

७।२६।२) । अत्र शाङ्करभाष्ये - आहारशुद्धौ । आह्नियत इत्याहारः शब्दादिविषयविज्ञानं

भोक्तुर्भोगायाह्रियते तस्य विषयोपलब्धिविज्ञानस्य शुद्धिराहारशुद्धी रागद्वेषमोहदोषैर-

संसृष्टं विषयविज्ञानमित्यर्थः । तस्यामाहरशुद्धौ सत्यां तद्वतोऽन्तःकरणस्य सत्त्वस्य

शुद्धिर्नैमल्यं भवति । अत्र आनन्दगिरिराह- आहारशब्दस्य भक्ष्यार्थतामपहाय तथा
 
-