This page has not been fully proofread.

शाङ्करवेदान्तकोशः
 
१२३
 
-
 
आशयः - १. आफलविपाकाच्चित्तभूमौ शेरत इत्याशयाः धर्माधर्मसंस्काराः ।
यथा - आशेरते सांसारिकाः पुरुषा अस्मिन्नित्याशयः । कर्मणामाशयौ धर्माधर्मौ (पा०
यो० सू० २।१२) । अयं चाशयः सम्पातशब्देनाप्युच्यते । यथा - यावत् सम्पातमुषित्वा...।
(छा० उ० ५/१०/५) ... सम्पातशब्देनात्र कर्माशय उच्यते । सम्पतन्त्यनेनास्माल्लोकादमुं
लोकं फलोपभोगायेति । यावत्सम्पातमुषित्वेति च कृत्स्नस्य तस्य कृतस्य तत्रैव भुक्ततां
दर्शयति । तेषां यदा तत्पर्यवैति (वृ० ६ ।२।१६) इति च । (ब्र० सू० ३।११८)।
यथा च – अविद्यादयः क्लेशाः । कुशलाकुशलानि कर्माणि । तत्फलं विपाकः । तदनुगुणा
वासना: आशयाः (पा० यो० सू० १।२४ व्या० भा० ) । अत्र तत्त्ववैशरद्याम्-
विपाकानुगुणाः वासनाः । ताश्चित्तभूमावाशेरत इत्याशयाः । अत्र च योगवार्त्तिके -
यतस्तच्छरीरसाध्यभोगवासनामुद्बोध्यैव कर्मणां विपाको दीयत इति । यथा च - असौ
कर्माशयो जन्मायुर्भोगहेतुत्वात् त्रिविपाकोऽभिधीयत इति । अत एव एकभर्विकः
कर्माशय उक्तः (तत्रैव व्या० भा०) । २. अन्तःकरणम् । यथा - आशयस्य अन्तः-
करणस्य (या० स्मृ० यतिधर्मे ६२ ) । ३ - अभिप्राय इति लोके ।
 
-
 
-
 
-
 
आश्रमाः - शरीरिणामवस्थाविशेषः आश्रमः स च चतुर्विधः - ब्रह्मचर्यम्,
गार्हस्थ्यम्, वानप्रस्थः, संन्यासश्चेति, यथा- जीवनस्यावस्थाविशेष:- आश्रमा
आश्रमिणोऽधिकृताः । वर्णिनश्च मार्गगाश्च.... श्रुतिभ्यः (मा० उप० गौ० पा० का०
३।१६ शा० भा०) । बृहदारण्यकोपनिषदः ६।२।१५ मन्त्रे शाङ्करभाष्ये चत्वार
आश्रमास्तेषां किञ्चित् कर्म च वर्णितानि ।
 
आसक्तिः - यथा - वाक्यजन्यज्ञाने च आकाङ्क्षायोग्यतासक्तयस्तात्पर्यज्ञानं
चेति चत्वारि कारणानि ।... एवं द्विविधोऽपि (शक्यार्थो लक्ष्यार्थश्च) पदार्थो निरूपितः ।
तदुपस्थितिश्च आसक्तिः । सा च शाब्दबोधे हेतुः । तथैवान्वयव्यतिरेकदर्शनात् । एवं
महावाक्यार्थबोधेऽवान्तरवाक्यार्थबोधो हेतुः । तथैवान्वयाद्यवधारणात् (वे०प० ४
प०) अव्यवधानेन पदजन्यपदार्थोपस्थितिरासक्तिरिति भावः । यथा च – आकाङ्क्षायोग्यता-
सन्निधिश्च वाक्यार्थज्ञाने हेतुः । .....पदानामविलम्बेनोच्चारणं सन्निधिः । .... प्रहरे
प्रहरे असहोच्चारितानि गाम् आनय इत्यादिपदानि न प्रमाणम्, सान्निध्याभावात् ।
(त० सं० श० प०)
 
आसुरी - असुरसम्बन्धिनी क्रिया तामसी लीला आदि ।
 
-