2023-03-12 05:00:38 by ambuda-bot
This page has not been fully proofread.
शाङ्करवेदान्तकोशः
आविर्भावः - १. प्राकट्यम् २. अभिव्यक्तिः ३. उत्पत्तिः । यथा मृदः सुवर्णाद्वा
घटकुण्डलादयो विशेषा निःसरन्त आविर्भवन्ति उत्पद्यन्ते वेत्युच्यते इति शाङ्करवेदान्तिभिः ।
४. प्रकाशात्मिका अभिव्यक्तिराविर्भावः । यथा - कूर्मशरीरे आच्छादितानामङ्गानामाविर्भावः
पयसो घृताविर्भावः तिलेभ्यस्तैलाविर्भावो वेति साङ्ख्ययोगाचार्याः । शाङ्करवेदान्ति-
साङ्ख्ययोगमते न पुनरसतामुत्पादः सतां वा निरोधः । कारणात्कार्यस्य भिन्नतया
कालाकारसङ्ख्यादिभेदात् सतः कारणाद् असतः कार्यस्योत्पत्तिरिति नैयायिक-
वैशेषिकाः । एवमेव रामानुजाचार्या अपि (ब्र० सू० २/१/१५ श्रीभा० ) ।
१२२
आविर्भूतस्वरूपः - जीवः । यथा - यतस्तत्राप्याविर्भूतस्वरूपो जीवो विवक्ष्यते ।
आविर्भूतं स्वरूपमस्येत्याविर्भूतस्वरूपः भूतपूर्वगत्या जीववचनम् (ब्र०सू० १ ।३।१९
शा० भा०) अत्रैव- आविर्भूतस्वरूपे तु निरुपाधौ सम्भवन्तो ब्रह्मण एव न जीवस्य
. स्यादेतत् स्वरूपाविर्भावश्चेद् ब्रह्मैव न जीवः (तत्रैव भाम० ) ।
...
आवृत् इतिकर्तव्यता । यथा- उच्यते स्मार्तत्वात् कर्मणः । स्मार्तं हीदं
मन्थकर्म । ननु श्रुतिविहितं सत् कथं स्मार्तं भवितुमर्हति स्मृत्यनुवादिनी हि श्रुतिरियम् ।
श्रौतत्वे हि प्रकृतिविकारभावस्ततश्च प्राकृतधर्मग्राहित्वं विकारकर्मणो न त्विह
श्रौतत्वम् । अत एव चावसथ्याग्नावेतत् कर्म विधीयते सर्वा चावृत् स्मार्तेर्वेति (बृ०
आ० उप० ६।३।१ शा० भा०) । त्रिकालविषयिणी श्रुतिः स्मृतिमप्यनुवदति । तेनात्र
स्मार्तेतिकर्तव्यता श्रुत्यनूदिता ।
-
-
आवृत्तिः : - १. पुनःपुनरभ्यासः । भूय एकजातीयक्रियाकरणमिति यावत् ।
यथा - आवृत्तिरसकृदुपदेशात् (ब्र० सू० ४।१।१) इत्यादौ श्रोतव्यो मन्तव्यो
निदिध्यासितव्य इति श्रवणादीनामावृत्तिः । यथा च आनन्दमयोऽभ्यासात् (ब्र० सू०
१।१।११) । २. स्वस्थानस्थितस्य पदस्य पदसमूहस्य वा पुनरनुसन्धानम् । यथा -
हलन्त्यम् (पा० सू० १।३।३) इति पाणिनिसूत्रस्यान्यो याश्रयदोषपरिहाराय
पुनरनुसन्धानम् । ३. पुनर्जन्म । यथा- ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति
तेषां न पुनरावृत्तिः (बृ० उ० ६/२/१५) । अत्र शाङ्करभाष्ये अस्मिन् संसारे न
पुनरागमनम् ।
आवृत्तिमन्ति – पुनः पुनरभ्यासवन्ति श्रवणमननादीनि । यथा - अवघातादि-
वददृष्टफलत्वादाफलोदयमावर्तितान्येव ज्ञानजनकानि तानीत्यर्थः । (सं० शा०
३।३४३ सु० टी०) ।