2023-03-12 05:00:38 by ambuda-bot
This page has not been fully proofread.
शाङ्करवेदान्तकोशः
आलम्बनम् - ज्ञानस्य आश्रयः । यथा यस्मिन् विज्ञाने यदवभासते तत्र
तदालम्बनम् (सर्वद० सं० शा० द०) ।
१२१
आलयविज्ञानम् - बौद्धदर्शनानुसारं वासनारूपेण स्थितस्य ज्ञानस्यालयः
स्थानम् । यथा – आलयविज्ञानसन्तानपतितमेवासंविदितं ज्ञानं वासना, तद् वैचित्र्या-
न्नीलाद्यनुभववैचित्र्यात् पूर्वनीलाद्यनुभववैचित्र्याच्च वासनावैचित्यमित्यनादितानयो-
र्विज्ञानवासनयोः । तस्मान्न परस्पराश्रयदोषसम्भवो बीजाङ्कुरसन्तानवदिति (ब्र०सू०
२।२।२८ शा० भा० भामती) । तथा नीलपीतादिसन्तानान्तराणां स्वस्वकारणभेदात्
सामर्थ्यभेद एवमालयविज्ञानसन्तानपतितक्षणान्तराणामित्यर्थः (तत्रैव वे० क० त०) ।
आवरणम् – १ . आच्छादनम् । यथा मेघेन आदित्यस्यावरणम् । २. अविद्यायाः
शक्तिद्वयम् – आवरणशंक्तिः विक्षेपशक्तिश्च । अविद्या अनया आवरणशक्त्या शुद्धं
चैतन्यं ब्रह्म आवृणोति । तेन शुद्धं बुद्धं मुक्तं ब्रह्म अशुद्धमबुद्धममुक्तं मन्यते लोकः ।
स्वप्रकाशं चैतन्यमात्मरूपमपि न जानाति लोकः । यथा - एक एव परमेश्वरः
कूटस्थनित्यो विज्ञानधातुरविद्यया मायया मायाविवदनेकधा विभाव्यते नान्यो
विज्ञानधातुरस्तीति (ब्र० सू० १ । ३ । १९ शा० भा०) । इदमविद्यावरणमल्पमपि बृहद्
ब्रह्म तथैवावृणोति यथाल्पोऽपि मेघो महदादित्यमण्डलमावृणोति आच्छादयति । यथा-
घनच्छन्नदृष्टिर्घनच्छन्नमर्कं यथा मन्यते निष्प्रभं चातिमूढः । तथा बद्धवद्भाति यो
मूढदृष्टेः स नित्योपलब्धिस्वरूपोऽहमात्मा (वे० सा० १६) ।
अविद्यायाः शक्तिद्वयम् - आवरणशक्तिः विक्षेपशक्तिश्च ।
आवरणशक्तिः
-
अनया आववरणशक्त्या सच्चिदानन्दात्मकस्यात्मनः स्वरूपमानन्दाद्यात्मकम् आच्छाद्य
कर्तृत्वभोक्तृत्वसुखदुःखमोहात्मकतुच्छभावना सम्भाव्यते । यथा- अनयैवावरण-
शक्त्यावच्छिन्नस्यात्मनः कर्तृत्वभोक्तृत्वसुखदुःखमोहात्मकतुच्छसंसारभावनापि सम्भाव्यते ।
यथा स्वाज्ञानावृत्तायां रज्जौ सर्पत्वसम्भावना (वे० सा० अध्याः प्र०) । यथा च-
अनिर्वाच्याविद्याद्वितयस्य सचिवस्य (भामतीम० श्लो०) । यथा च आवरणशक्तिर्नास्ति
ब्रह्म न प्रकाशते चेति व्यवहारहेतुः शक्तिः (सं० शा० १ ।२० सु० टी०) । यथा
च- शक्तिद्वयं हि मायाया विक्षेपावृत्तिरूपकम् । विक्षेपशक्तिर्लिङ्गादिब्रह्माण्डान्तं जगत्
सृजेत् । अन्तर्दृगूदृश्ययोर्भेदं बहिश्च ब्रह्मसर्गयोः । आवृणोत्यपरा शक्तिः सा संसारस्य
कारणम् (दृगूदृश्यविवेके १३।१५) । यथा च - अस्याज्ञानस्यावरणविक्षेपनामकमस्ति
शक्तिद्वयम् । .....आवरणशक्तिस्तावदल्पोऽपि मेघो..... आदित्यमण्डलमाच्छादयतीव
तथाज्ञानम् .....आत्मानम् आच्छादयतीव । तादृशसामर्थ्यम् (वे०सा० १६) ।