This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
भिन्नत्वमभिन्नत्वं तदुभयरूंपत्वं वा अतोऽनिर्वचनीयत्वम् । इत्थम् आभासस्य मिथ्यात्वम्,

तथा प्रतिबिम्बस्य सत्यत्वम् । उक्तं च सिद्धान्तबिन्दौ श्लो० १ न्यायरत्नावली टीकायां

तथा स्वीये श्रीशङ्कराप्रागद्वैतवादे । यथा च - बुद्धितत्स्थचिदाभासौ द्वावेतौ व्याप्नुतो

घटम् । तत्राज्ञानं धिया नश्येदाभासात्तत्र घटः स्फुरेत् (प० ८० ७।९५ )।
 
१२०
 
-
 

 
आम्नायः, आम्नाय
१ . श्रुतिः । यथा - आम्नायस्य क्रियार्थत्वादानर्थक्यं अतदर्थानाम्

(जै० सू०) । अथाक्षरसामाम्नायमधिगम्य महेश्वरात् । कृत्स्नं व्याकरणं प्रोक्तं तस्मै

पाणिनये नमः । २. अवच्छेदकम् (नील० पृ० ७) यथा आत्मनो भोगायतनमित्यादौ ।

३. प्रतिभेति वैदिका वदन्ति । यथा देवतायतनानि हसन्ति रुदन्तीत्यादौ । ४. आश्रयः

स्थानं बौद्धकाव्यज्ञाः आहुः (न्या० को०) ।
 
-
 

 
आरण्यश्वा - , आरण्यश्वन्
शालावृकः । एतदर्थः शालावृकशब्दो द्रष्टव्यः ब्र० सू० १ ।१।३

वे० क० त० ) ।
 

 
आरम्भवादः - , आरम्भवाद
जगतः सृष्टिविषये आरम्भवादो न्यायवैशेषिकाभिमतः ।

विवर्तवादः शाङ्करवेदान्तिनाम्, परिणामवादः साङ्ख्ययोगानाम्, शून्यवादो

बौद्धानाम् । आरम्भः = १ . उत्पत्तिः २. कार्यम् ३. सृष्टिः । यथा - आरम्भवादे हि

कारणे कार्यस्योत्पत्तेः प्रागसत्त्वमिष्टम् । असतश्च न केनचित् कोऽपि सम्बन्धो भवति

(सं० शा० ३/२०९ अ० टी०) ।
 
-
 
-
 
-
 

 
आरोपः - , आरोप
अन्यत्र अन्यधर्मस्याभासः प्रतीतिर्वा । अयमेव अध्यारोपः अध्यासश्च

कथ्यते । यथा - असर्पभूतायां रज्जौ सर्पारोपवद् वस्तुन्यवस्त्वारोपः । वस्तु सच्चिदा-

नन्दाद्वयं ब्रह्म । अज्ञानादिसकलजडसमूहोऽवस्तु । यथा च तत्राध्यासो नाम

द्वयोर्वस्तुनोरनिवर्तितायामेवान्यतरबुद्धावन्यतरबुद्धिरध्यस्यते यस्मिन्नितरबुद्धिरध्यस्य-

तेऽनुवर्तत एव तस्मिंस्तद्बुद्धिरध्यस्तेतरबुद्धावपि । यथा नाम्नि ब्रह्मबुद्धावध्यस्य-

मानायामप्यनुवर्तत एव नामबुद्धिर्न ब्रह्मबुद्ध्या निवर्तते । यथा वा प्रतिमादिषु

विष्णूवादिबुद्ध्यध्यासः। एवमिहाप्यक्षर उद्गीथबुद्धिरध्यस्यत उद्गीथे वाक्षर-

बुद्धिरिति (ब्र० सू० ३।३।९ शा० भा०) । अत्र भामत्याम्- गौणीवृत्तिरध्यासः ।

यथा माणवके सिंहो माणवक इति ।
 
....
 
-
 
-
 

 
आरोहणम् - , आरोहण
उपरिगमनम्, तत्तदूर्ध्वलोकप्राप्तिः । यथा - स एतं देवयानं

पन्थानमासाद्याग्निलोकमागच्छति (कौ० १।३) सूर्यद्वारेण ते विरजाः प्रयान्ति

(मुण्ड़० १/२/११) (ब्र० सू० ४।३।१ शा०भा०) ।
 
....