This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
११९
 
-
 
अज्ञानस्य तु सर्वत्राभिन्नत्वात्तद्गतचिदाभासभेदाभावात्तदविविक्तसाक्षिचैतन्यस्य न

कदाचिदपि भेदभानमिति (सि० वि० १) । यथा - जीवो हि नाम देवताया आभास-

मात्रः (छा० उ० ६।३।२ शा० भा०) । यथा च आभास एव चैष जीवः परमात्मनो

जलसूर्यादिवत् प्रतिपत्तव्यः (ब्र० सू० ३/२/५० शा० भा० ) । यथा च आभिमुख्येन

अहमित्यपरोक्षेण भासत इत्याभासः प्रत्यक्चितो भासो नाम आभासः (बृ० उ० भा०

वा० २।१।२१६ आ० गि०) । यथा च - क्रियाकारकफलात्मक आभास ईषदपि

परमार्थवस्तु न स्पृशति तस्य मोहमात्रोपादानत्वात् (नै० सि० २।५१) । यथा च

परिणामो हि मोहादेश्चिदाभासः सदेष्यते (बृ० उ० भा० वा० ४ । ३।४९४)।

आभासस्य मिथ्यात्वम् । यथा - मुखाभासो यथादर्शे आभासश्चोदितो मृषा (उप०

साह० २।१८।८८, यथा च - २/१८/४३, २/१८/४८, २/१८/११४) बृ० उ०

भा० वा० आभासस्य कृते इमे शब्दाः प्रयुक्ताः- चिदाभासः, चिद्बिम्बः कूटाभासः,

महिमा, अभिप्रायः प्रसादः आकृतिः वृत्तिः । (२।३/२३२, ३/५/७०, ३/५/१३६,

३।८।११५, १।३।३१२, ४३/७४, ४/३/२९५, ४/३/२२९, ४/४/६५१,

१।४।६३६) श्रीमधुसूदनसरस्वती आभासम् अनिर्वचनीयं कथयति - आभासस्यापि

जडाजडविलक्षणत्वेनानिर्वचनीयत्वात् (सि० वि० १ ) । आभासप्रतिविम्बयोर्भेदः ।

यथा - ईषद्भासनमाभासः प्रतिबिम्बस्तथाविधः । बिम्बलक्षणहीनः सन् बिम्ववद्भासते

हि सः (प० द० ८।३२) । इत्थं च आभासश्चैतन्यगतसत्त्वादिलक्षणहीनोऽपि

सत्त्वादिरूपतया प्रतीयते यथा मुखलक्षणहीनोऽपि मुखाभासो मुखधर्मवान् भासते ।

एवं मुखाभासो मिथ्या अनिर्वचनीयः आपातरमणीयः दर्पणाधुपाधिस्थितिसमकालो

विनाश्यस्तद्वद् आभासोऽपि मिथ्या अचिन्त्यः आपातरमणीयः अज्ञानाधुपाधिस्थिति-

समक़ालो निर्वत्यः । आभासो द्विप्रकारेणानुभूयते - कारणाभासरूपेण कार्याभासरूपेण

च । यथा- क्रियाकारकफलात्मक आभासः । (नै० सि० २/५१) कारणाभासः

अज्ञानगतः कार्याभासः अज्ञानजन्यवस्तुगतः । कारणाभासस्योपादनं चैतन्यम्,

कार्याभासस्योपादानमविद्या । आभाससाचिव्येन ब्रह्म जगद्रूपेण प्रथते । यथा -

एवमेवाप्तकामं सकलप्रवृत्तिनिवृत्तिहीनं कार्यकारणातीतं ब्रह्म दृश्यमानसर्व-

प्रपञ्चप्रकाशनाय नालम्, तथावरणविक्षेपशक्तिका तमोरूपाविद्यापि प्रपञ्चप्रकाशाय

नालम्, तदा स्वाभाससाचिव्येनैवात्मा विषयान् प्रकाशयति (बृ० उ० भा० वा०

४।३।८९ तथा ४।३।१८६, ३६१) । आभासवादप्रतिबिम्बवादयोरियान् भेदः-

बिम्बभूताच्चितः प्रतिबिम्बभूतो जीवोऽभिन्नः । आभासपक्षे आभासस्य न चितो
 
-
 
1