This page has been fully proofread once and needs a second look.

११८
 
शाङ्करवेदान्तकोशः
 
-
 
नाम आभासः (बृ० उ० भा० वा० २।१।२१६ टी०) । अयं चाभासस्त्रिधा विभज्यते ।

यथा - जात्याभासं चलाभासं वस्त्वाभासं तथैव च (मा० का० ४।४५) । जात्याभासो

यथा देवदत्तो जायते, चलाभासो यथा देवदत्तो गच्छति, वस्त्वाभासो यथा स

एव देवदत्तो गौरो दीर्घः । अत्र वस्तुशब्दो द्रव्यपरो धर्मपरश्च । एव मेव

सिद्धान्तबिन्दौ ।

२. निग्रहस्थानम् ।व्यभिचारादावसिद्ध्यायुद्भावनम् (गौ० वृ० ५।२।२२) ।

यथा पर्वतो धूमवान् वह्नेरित्यादौ वह्निः स्वरूपासिद्धः स्यादिति निरनुयोज्यानु

योगप्रभेदोऽयमिति विज्ञेयम् (गौ० वृ० ५ ।२।२२) । ३. अप्रमाज्ञानहेतुः (ग० बाध०

५।६) यथा सामान्यतो दृष्टस्याप्याभासत्वमिति भासस्यासाङ्कर्यात् (चि० २ पृ० १०५)

इत्यादावभासः । ४. प्रतिकूलो विरुद्धो वा । यथा तर्काभासः, प्रमाणाभासः, न्यायाभासः

इत्यादौ । (वात्स्या० १।१19) (त० कौ० पृ० ६) (कु० ५ (३) (न्या० को) ५.

भ्रमः । यथाः शुक्तौ रजताभास इत्यादौ । ६. दोषः यथा हेत्वाभास इत्यादौ हेतुदोष

इत्यर्थः । अत्र हेतुवदाभासत इति व्युत्पत्त्या आभासपदं हेतुनिष्ठदोषपरम् । (न्या०

र० सामा०) ६. जडचेतनपदार्थरूपः सत्यात्मकः । काश्मीरकचित्रिकदर्शने परमशिवो

लीलया स्वस्मिन्नेव स्वचिद्भित्तावेव स्वातन्त्र्यशक्त्या जगद् भासयति । अयं

जगदाभासः परमशिवरूप एव । यथा - आभासरूपा एव जडचेतनपदार्थाः (प्रत्य

वि० ३।२।१) (न्या० को०) ।
 
-
 

 
आभासवादः - , आभासवाद
शाङ्कराद्वैतनये चिदात्मनो ब्रह्मणो जीवभावापादनाय त्रयो वादा

आभासवादः प्रतिबिम्बवादोऽवच्छेदवादश्च स्वीक्रियन्ते । तत्र प्रथमः श्री-

सुरेश्वराचार्याभिमतःद्वितीयः श्रीपद्मपादाचार्याभिमतस्तृतीयश्च श्रीवाचस्पतिमिश्राभिमतः ।

अनेन आभासेनैव निर्गुणं निर्विकारं निष्कलं निरंशं च ब्रह्म अविद्यासाचिव्येन जीव-

भावापन्नं जगद्भावापन्नं च भवति । यथा - एवमेवाप्तकामं सकलप्रवृत्तिनिवृत्तिहीनं

कार्यकारणातीतं ब्रह्म दृश्यमानसर्वप्रपञ्चप्रकाशनाय नालम्, तथावरणविक्षेपशक्तिका

तमोरूपा अविद्यापि प्रपञ्चप्रकाशनाय नालम् । तदा स्वाभाससाचिव्येनैवात्मा विषयान्

प्रकाशयति (बृ० उ० भा० वा० ४/३/८९, ४/३/१८६, ४।३।३६१ आ० गि०) ।

यथा च - अज्ञानोपहित आत्मा अज्ञानतादात्यापन्नस्वचिदाभासाविवेकादन्तर्यामी साक्षी

जगत्कारणमीश्वर इति च कथ्यते । बुद्ध्युपहितश्च तत्तादाम्यापन्नस्वचिदाभासा -

विवेकाज्जीवः कर्ता भोक्ता प्रमातेति च कथ्यत इति वार्त्तिककारपादाः । प्रतिदेहं च

बुद्धीनां भिन्नत्वात्तद्गतचिदाभासभेदेन तदविविक्तं चैतन्यमपि भिन्नमिव प्रतीयते ।