2023-03-12 05:00:37 by ambuda-bot
This page has not been fully proofread.
शाङ्कुरवेदान्तकोशः
११७
राजानं यात्रायामुद्यन्तं परिवारभूताः प्राणिनः समुपयन्ति । एवमात्मानमन्तकाले सर्वे
प्राणाः अभिसमागच्छन्ति । (तत्रैव कल्पतरौ ) । यथा वा पान्थः प्रथमं नाविकेन संगत्य
ततस्तेन सह तदीयां नावं गत्वा पारं प्राप्नोति । तथा प्राणः जीवेन संगत्य ततस्तेन
सह तेज: शब्दोक्तं त्रिवृत्कृतभूतान्तरसंसृष्टं तदीयं सूक्ष्मशरीरं गत्वा तेन सह परां
देवतां प्राप्नोति । जीवस्य प्राणतेजोमध्ये निवेशे दृष्टान्तः । यथा च सारथिः प्रथमं
राजकीयं रथं स्वयमारूह्य राजसमीपं गत्वा पश्चाद् रथारूढेन तेन सहितस्तदभिमतदेशं
प्राप्नोति । एवं जैवं सूक्ष्मशरीरं प्राणः प्रथमं प्राप्य ततस्तप्राप्तेन जीवेन सहितः परदेवतां
प्राप्नोतीति । जीवस्य तेजोऽनन्तरनिवेशे दृष्टान्तः (तत्रैव क० त० परिमले) ।
आप्तः- यथार्थवक्ता । (त०सं०श०प०) यथा च - रजस्तमोभ्यां निर्मुक्तास्तयो-
ज्ञानबलेन वै । येषां त्रैकालममलं ज्ञानमव्याहतं सदा । आप्ताः शिष्टा विबुद्धास्ते तेषां
वाक्यमसंशयम् (चरकसंहितायांत्र्येषणीयाध्याये) । एवमेव न्यायभाष्येऽपि ।
-
आप्तोपदेशः - प्रमाणशब्दः । १. दृष्टस्यार्थस्य प्रमाणयितुं प्रयुक्तः शब्दः ।
२. प्रकृतवाक्यार्थयथार्थज्ञानप्रयुक्तः शब्दः । ३. आप्तो यथार्थ उपदेशः शाब्दबोधो
यस्मात् (गौ० बृ० १।१।७) । यथा - ब्रह्मसूत्रन्यायसूत्रादिराप्तोपदेशः ।
आप्यम् – प्राप्तुं योग्यम् । न चाप्यत्वेनापि कार्यापिक्षा, स्वात्मस्वरूपत्वे
सत्यनाप्यत्वात् । स्वरूपव्यतिरिक्तत्वेऽपि ब्रह्मणो नाप्यत्वं सर्वगतत्वेन नित्याप्त-
स्वरूपत्वात् सर्वेण ब्रह्मणः आकाशस्येव (ब्र० सू० १।१।४ शा० भा०) ।
-
आभासः - १. अवभासनं प्रतीतिः । स्वतः असतोऽपि तत्र तत्र सत इव
भासनं प्रतीतिः । यथा स्वच्छे शुभ्रे स्फटिके समीपस्थस्य जपाकुसुमस्य अरुणिम्नः
प्रतीतिः । यथा - जपाकुसुमस्य अरुणिम्नः स्फटिकेऽवभासनम् । उक्तञ्च अप्पात्र-
गतत्वम् आभासपरार्थः ।अप्पात्रमपि विशिष्टात्मना मृषैव दिवाकरस्तु न सर्वथेत्यर्थः ।
(सं० शा० ३ । २८० सु० टी०) । यथा च अप्पात्रमुदकधृक् । शरावाधुपाध्यप्पात्रम् ।
अतत्त्वमित्याभसनमुक्तम् । अप्पात्रगत इति प्रतिबिम्बोक्तिः । अप्पात्रगतात् परश्च
दिवाकरो दिव्यवतिष्ठान इति शुद्धप्रतिबिम्बमुच्यते (तत्रैव अ० टी०) । यथा च -
चिदवदवभासनं चिदाभासनं न साक्षाचिन्नापि जडम् । तच्च चित्सन्निधाने मायाया-
मुत्पन्नमीश्वरत्वं भवति । मायाप्रकृत्तिहेतुतया तदीशनरूपत्वात् । आत्माभासा-
विविक्तश्च चित्प्रतिबिम्बः स ईश्वरः शुद्धं चैतन्यमेव च बिम्बमित्यर्थः (तत्रैव सु०
टी०) ।२. आभिमुख्येन अहमित्यपरोक्षेण भासते इत्याभासः प्रत्यक्चितोऽवमतो भासो