This page has been fully proofread once and needs a second look.

शावेदान्तकोशः
 
नन्दानङ्गीकारपक्षेऽपि भारापगमे सुखी संवृतः इत्यादाविव दुःखाभावरूप आनन्दः

(मु० १ । १०३) । अत्र आनन्दशब्दो लक्षणया दुःखाभावबोधकः इति बोध्यम् ।
 

 
आनन्दमयः , आनन्दमय
१. परं ब्रह्म । आनन्दमयशब्दे प्रचुरार्थे मयट् प्रत्ययो न तु

विकारार्थे । यथा- एवात्मानन्दमयो भवितुमर्हति । कुतः अभ्यासात् । परस्मिन्नेव

ह्यात्मन्यानन्दशब्दो बहुकृत्वोऽभ्यस्यते । आनन्दमयं प्रस्तुत्य - "रसो वै सः" इति

तस्यैव रसत्वमुक्त्वोच्यते - रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति इति को ह्येवान्यात्

कः प्राण्यात् । यदेष आकाश आनन्दो न स्यात् । एष ह्येवानन्दयति । (तै० २।७) ।

आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन । (तै० २१८,९) आनन्दो ब्रह्मेति

व्यजानात् (तै० ३।६)। .... विज्ञानमानन्दं ब्रह्म । (बृ० ३।९।२८) इति ब्रह्मण्ये-

वानन्दशब्दो दृष्टः । एवमानन्दशब्दस्य बहुकृत्वो ब्रह्मण्यभ्यासादानन्दमय आत्मा

ब्रह्मेति गम्यते ( ब्र० सू० १/१/१२ शा० भा० ) । २. आनन्दमयः कोशः,

अन्नमयप्राणमयमनोमयर्विज्ञानानन्दमयेषु अन्यतमः । यथा आनन्दप्रचुरत्वात्

कोशवदाच्छादकत्वादानन्दमयकोशः । सर्वोपरमत्वात् सुषुप्तिः (वे० सा० १२) । ३.

कार्यात्मा । यथा .... आनन्दमय इति कार्यात्मप्रतीतिरधिकारान् मयट् शब्दाच्च ।

अन्नादिमया हि कार्यात्मानो भौतिका इहाधिकृताः । तदधिकारपतितश्चायमानन्दमैयः

(तैत्ति० उ० २/५ शा० भा० ) ।
 
....
 
-
 

 
आनन्दभुक् - , आनन्दभुक्
सुषुप्त्यवस्थापन्न आत्मा । यथा - यत्र सुप्तो न कञ्चन कामं

कामयते न कञ्चन स्वप्नं पश्यति तत् सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघन

एवानन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः (मा० उ० ५) ।
 

 
आनुपूर्वी - , आनुपूर्वी
तदुत्तरत्वविशिष्टतदुत्तरत्वादिः । यथा घटमानयेत्यक्षरणामानुपूर्वी ।

यथा वा उचितानुपूर्वी प्रतिज्ञोत्तरहेतूत्तरोदाहरणोत्तरोपनयोत्तरनिगमनत्वरूपेत्यादौ

(ग०अव०पत्रम् ४) आनुपूर्वी च घटः इत्यत्र क्षणोत्पत्तिकत्वसम्बन्धेन घकार-

विशिष्टत्वम् (त० प्र० ख० ४ पृ० १२७) एवमन्यत्राप्युह्या । (न्यायकोशे) ।
 

 
आनुमानिकम् - , आनुमानिक
प्रधानम्- अनुमानेन साधितम् अव्यक्तमित्यर्थः ।
 
-
 
-
 

 
आपः
 
-
 
, आप
जलम् । यथा - या अधस्तात् पृथिव्यास्ता आप उच्यन्ते

आप्नोतेर्लोकाः (ऐ० उ० १ । २ शा० भा०) ।
 

 
आपत्तिः - , आपत्ति
लयः । यथा- तेजसि समापन्नवृत्तिः खलु प्राणः । तेजस्तु

जीवात्मनि समापन्नवृत्तिः । तद्वारा जीवात्मसमापन्नवृत्तिः प्राण इत्युपपद्यते । तस्मात्

तेजस्येव प्राणवृतिलयः (ब्र० सू० २ । ३ । ४ शा० भा०) । अत्र आपत्तिर्लयः । यथा -