This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
११५
 
आधारता - , आधारता
१. अयम् अखण्डोपाधिः इति नैयायिकाः (व्युत्त्य० का० प्र०) ।

२. आधारोऽधिकरणम् (पा० सू० १ ।४।४५) । आधारनिष्ठो धर्मः इति पाणिनीयाः ।

३. आधारः अधिष्ठानम् । तच्च सर्वस्य आविद्यकस्य अधिष्ठानमाधारो ब्रह्मैवेति

अद्वैतिनः । तत्रैव चाधारता ।
 

 
आधेयता - , आधेयता
१. आधेयनिष्ठो धर्मः । आधेयमिति प्रतीतिनियामको धर्मविशेषः

(वृत्तित्वम्) यथा भूतलं घटवद् इत्यादौ घंटे भूतलाधेयता । २. प्रकारताविशेष इति

केचित् । ३ अखण्डोपाधिरिति अपरे ।
 
-
 

 
आध्यानम्, आध्यान
सम्यग्दर्शनम् । यथा - आध्यानपूर्वकाय सम्यग्दर्शनाय इत्यर्थः ।

सम्यग्दर्शनार्थमेव हीहाध्यानमुपदिश्यते नत्वाध्यानमेव स्वप्रधानम् (ब्र० सू०

३ । ३ । १४ शा० भा० ) । सूक्ष्मशब्दादिभूतध्यायिनो भौतिकाः । करणाभिमान्यादित्यादि-

देवताध्याधिन आभिमानिकाः । अन्तःकरणध्यायिनो बौद्धाः (तत्रैव वे० क० त० ) ।

अतः सम्यग्दर्शनमद्वितीयब्रह्मसाक्षात्कार इत्यद्वैतिनः । उक्तं च यथा- इतश्च पुरुष-

प्रतिपत्त्यर्थमेवेन्द्रियादिप्रवाहोक्तिः । यत् कारणम् - एष सर्वेषु भूतेषु गूढ आत्मा न

प्रकाशते । दृश्यते त्वग्रया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः । (कठ० उ० ३ । १२) इति

प्रकृतं पुरुषमात्मेत्याह । अतश्चानात्मत्वमितरेषां विवक्षितमिति गम्यते । तस्यैव च

दुर्विज्ञानतां संस्कृतमतिगम्यतां च दर्शयति । तद् विज्ञानायैव - यच्छेद् वाङ्मनसी

प्राज्ञः (कठ० ३।१३) इत्याध्यानं विदधाति (ब्र०सू० ३/३/१५ शा०भा० ) ।
 
-
 
-
 

 
आनन्दः, आनन्द
१ . आङुपसर्गाद् टुनदिसमृद्धौ इति धातोः निष्पन्न आनन्द शब्दः

सर्वसमृद्ध्यर्थकः। २. सुखम् यथा - नमस्यामस्तद्ब्रह्मापरिमितसुखज्ञानममृतम्

(ब्र० सू० भाम० टी० मङ्गलश्लो०) । ३. ब्रह्म यथा - "सुखं द्विविधम् सातिशयं

निरतिशयं चेति । तत्र सातिशयं सुखं विषयानुषङ्गजनितान्तःकरणवृत्तितारतम्यकृतानन्द-

लेशाविर्भावविशेषः । एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति (बृ० उ०४।३।२)

इत्यादिश्रुतेः । निरतिशयं सुखं च ब्रह्मैव । आनन्दो ब्रह्मेति व्यजानात् (तै० उ० ३।६)

विज्ञानमानन्दं ब्रह्म (बृ० उ० ३।१८) इति श्रुतेः ।" (वे० प० ८ परि०) सुखशब्द-

व्युत्पत्तिरपि वैषयिकं सातिशयं सुखमभिदधाति - सुष्ठु खानि इन्द्रियाणि यत्र तत्

सुखम् । ४. मोक्षः, यथा आनन्दात्मकब्रह्मभावाप्तिश्च मोक्षः । शोकनिवृत्तिश्च । ब्रह्म

वेद ब्रह्मैव भवति (मु० ३।२।९) तरति शोकमात्मवित् । (छा० १/१।३)

इत्यादिश्रुतेः । न तु लोकान्तरावाप्तिः, तज्जन्यवैषयिकानन्दो वा मोक्षः । तस्य

कृतकत्वेनानित्यत्वे मुक्तस्य पुनरावृत्त्यापत्तेः । ५. दुःखाभावः । यथा परमात्मन्या-
-