2023-03-12 05:00:37 by ambuda-bot
This page has not been fully proofread.
शाङ्करवेदान्तकोशः
११५
आधारता - १. अयम् अखण्डोपाधिः इति नैयायिकाः (व्युत्त्य० का० प्र०) ।
२. आधारोऽधिकरणम् (पा० सू० १ ।४।४५) । आधारनिष्ठो धर्मः इति पाणिनीयाः ।
३. आधारः अधिष्ठानम् । तच्च सर्वस्य आविद्यकस्य अधिष्ठानमाधारो ब्रह्मैवेति
अद्वैतिनः । तत्रैव चाधारता ।
आधेयता - १. आधेयनिष्ठो धर्मः । आधेयमिति प्रतीतिनियामको धर्मविशेषः
(वृत्तित्वम्) यथा भूतलं घटवद् इत्यादौ घंटे भूतलाधेयता । २. प्रकारताविशेष इति
केचित् । ३ अखण्डोपाधिरिति अपरे ।
-
आध्यानम् – सम्यग्दर्शनम् । यथा - आध्यानपूर्वकाय सम्यग्दर्शनाय इत्यर्थः ।
सम्यग्दर्शनार्थमेव हीहाध्यानमुपदिश्यते नत्वाध्यानमेव स्वप्रधानम् (ब्र० सू०
३ । ३ । १४ शा० भा० ) । सूक्ष्मशब्दादिभूतध्यायिनो भौतिकाः । करणाभिमान्यादित्यादि-
देवताध्याधिन आभिमानिकाः । अन्तःकरणध्यायिनो बौद्धाः (तत्रैव वे० क० त० ) ।
अतः सम्यग्दर्शनमद्वितीयब्रह्मसाक्षात्कार इत्यद्वैतिनः । उक्तं च यथा- इतश्च पुरुष-
प्रतिपत्त्यर्थमेवेन्द्रियादिप्रवाहोक्तिः । यत् कारणम् - एष सर्वेषु भूतेषु गूढ आत्मा न
प्रकाशते । दृश्यते त्वग्रया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः । (कठ० उ० ३ । १२) इति
प्रकृतं पुरुषमात्मेत्याह । अतश्चानात्मत्वमितरेषां विवक्षितमिति गम्यते । तस्यैव च
दुर्विज्ञानतां संस्कृतमतिगम्यतां च दर्शयति । तद् विज्ञानायैव - यच्छेद् वाङ्मनसी
प्राज्ञः (कठ० ३।१३) इत्याध्यानं विदधाति (ब्र०सू० ३/३/१५ शा०भा० ) ।
-
-
आनन्दः – १ . आङुपसर्गाद् टुनदिसमृद्धौ इति धातोः निष्पन्न आनन्द शब्दः
सर्वसमृद्ध्यर्थकः। २. सुखम् यथा - नमस्यामस्तद्ब्रह्मापरिमितसुखज्ञानममृतम्
(ब्र० सू० भाम० टी० मङ्गलश्लो०) । ३. ब्रह्म यथा - "सुखं द्विविधम् सातिशयं
निरतिशयं चेति । तत्र सातिशयं सुखं विषयानुषङ्गजनितान्तःकरणवृत्तितारतम्यकृतानन्द-
लेशाविर्भावविशेषः । एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति (बृ० उ०४।३।२)
इत्यादिश्रुतेः । निरतिशयं सुखं च ब्रह्मैव । आनन्दो ब्रह्मेति व्यजानात् (तै० उ० ३।६)
विज्ञानमानन्दं ब्रह्म (बृ० उ० ३।१८) इति श्रुतेः ।" (वे० प० ८ परि०) सुखशब्द-
व्युत्पत्तिरपि वैषयिकं सातिशयं सुखमभिदधाति - सुष्ठु खानि इन्द्रियाणि यत्र तत्
सुखम् । ४. मोक्षः, यथा आनन्दात्मकब्रह्मभावाप्तिश्च मोक्षः । शोकनिवृत्तिश्च । ब्रह्म
वेद ब्रह्मैव भवति (मु० ३।२।९) तरति शोकमात्मवित् । (छा० १/१।३)
इत्यादिश्रुतेः । न तु लोकान्तरावाप्तिः, तज्जन्यवैषयिकानन्दो वा मोक्षः । तस्य
कृतकत्वेनानित्यत्वे मुक्तस्य पुनरावृत्त्यापत्तेः । ५. दुःखाभावः । यथा परमात्मन्या-