This page has not been fully proofread.

११४
 
शाङ्कुरवेदान्तकोशः
 
केचिद् वदन्ति (तत्रैव श्रीधरी) । निधर्भिणोऽप्यात्मनः केचनधर्मा अपृथक्त्वेऽपि
पृथगिव भासन्ते । यथा - विषयिणस्तद्धर्माणं चेत्यध्यासभाष्यावयवं व्याचक्षाणैः
पञ्चपादिकाकृद्धिः - ननु विषयिणश् चिदेकरूपस्य कुतो धर्मा ये विषयेऽध्यसेरन्
इत्याक्षिप्य समाहितम् आनन्दो विषयानुभवो नित्यत्वं चेतिधर्माः । अपृथक्त्वेऽपि
चैतन्यात् पृथगिवावभासन्त इति ( त० प्र० स्वप्र० प्र० न० टी० ) ।
 
-
 
-
 
आत्मीयः - आत्मसम्बन्धी शरीरः । आत्मीयं शरीरम्, आत्मा शरीरादि-
संयुक्तमात्मानमित्यर्थः (ब्र० सू० १/१/४ शा० भा०) ।
 
आदिः - १. तप्रागभावाधिकरणकालः । यथा आदौ द्रव्यं स्वीकुरु । यथा
वा आदावन्ते च मध्ये च विष्णुः सर्वत्र गीयते इत्यादौ । २. कारणम् । यथा आदिमत्त्वा-
दैन्द्रियकत्वात्कृतकवदुपचाराच्च (गौ० २/२/१४) । इत्यादौ । अत्र आदीयते
अस्मादिति व्युत्पत्तिर्द्रष्टव्या (वात्स्या० २।२।१४ ) । ३. उत्पत्तिः । यथा अनादिः
प्रागभाव इत्यादौ । ४. यस्मिन् सति यस्मात्पूर्वो नास्ति स आदिरिति वैयाकरणाः ।
 
आदित्यः - १. सूर्यः २. अदितेरपत्यत्वात् आदित्यो देवः (सर्वे देवा
आदित्याः) ३. यज्ञकर्मणि सामवेदीयः प्रतिहारः । यथा - आदित्यः प्रतिहारः
(छा० उ० २।२।१ शा० भा०) ।
 
आदिदेवः – १ . सर्वेषु देवेषु प्रथमः । यथा - आदिदेवं सर्वदेवानामादौ भवम्
(गी० १०/१२ शा० भा०) । २. सूत्रात्मनः प्रथमः । यथा आदिदेवं सूत्रात्मनोऽप्याद्यम्
(तत्रैव नी० क०) । ३. अजः । यथा - आदिदेवं सर्वेषां ब्रह्मादिदेवानामादिभवम् अत
एव अजम् (तत्रैव भाष्यो०)।
 
आदिबुद्धाः
 
स्वभावत एव ज्ञानवन्तः । यथा प्रकृतिसिद्धज्ञानवन्तः ।
यस्मादादौ बुद्धा आदि बुद्धाः प्रकृत्यैव स्वभावत एव यथा नित्यप्रकाशस्वरूपाः सर्वदैवं
नित्यबोधस्वरूपाः इत्यर्थः (मा० गौ० पा० का० ४।९२ शा० भा०) ।
 
:-
आदेश:
 
-
 
१. आज्ञा । २. स्थानिधर्माभिधानसमर्थः इति शाब्दिकाः । यथा
स्थानिवदादेशोऽनविधौ (पा० सू० १/१/५६) । ३. अमुकवर्णस्य उच्चारणप्रसङ्गे
अमुकः उच्चारणीयः इति शाब्दिकाः । यथा इको यणचि (पा० सू० ६।१।७७)
अजव्यवहितोत्तरत्त्वविशिष्टेक उच्चारणप्रसङ्गे यण् उच्चारयितव्य इति । ३. कथनम्
उपदेशो वा इति अद्वैतवेदान्तिनः । यथा अथात आदेशः । यथा च एष आदेश एष
उपदेशः (तै० उ० ११ । ४) ।