This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
११३
 

करूप्यस्याप्युत्तरोत्तरमाविष्कृतस्य
 
-
 
तारतम्यमैश्वर्यशक्तिविशेषैः श्रूयते - तस्य य

आत्मानमाविस्तरां वेद (ऐ० आ० २/३/२, १ - ब्र० सू० १/१/११ शां० भा० ) !

आत्मा – ब्रह्म, व्यापकः लयस्थानम्, उपादानम्, देहः "अयमात्मा ब्रह्म" आप्लृव्याप्तौ

धात्वर्थानुसारेण व्यापक आत्मशब्दार्थः यद्यस्माद् आदत्ते संहरति स्वात्मनि एव सर्वमिति

जगदुपादानकारणं लभ्यते । विषयानत्तीत्यात्मेति व्युत्पत्त्या स्वचैतन्याभासेनोपलब्धृत्व-

मात्मशब्दार्थः । आत्मा स भोक्तुरपरे (ब्र० सू० १११ शां० भा०) भोक्तु-

र्जीवात्मनोऽविद्योपाधिकस्य स ईश्वरस्तत्पदार्थ आत्मा तत ईश्वरादभिन्नो जीवात्मा ।

परमाकाशादिव घटाकाशादय इत्यर्थः । (भामत्याम्) सहस्रशः ब्रह्मात्मशब्दयोः

समानाधिकरण्यादेकार्थत्वमेवेत्यवगम्यते । (बृ० आ० उ० १।४।११ शां० भा० )

आप्नोतीत्यात्मा परमकारणम् (ब्र० सू० १/१/४ वे० क० त०) आत्मशब्दश्च

चेतनवचन इत्यवोचाम (ब्र० सू० १/१/१० शां० भा०) (का० उप० ४ व० १

म० आ० टी०) १. (जीव:) तस्यात्मनो जीवस्यान्तःकरणं बन्धुर्भवति येन नियन्त्रा

जीवेनान्तःकरणेनैव पूर्वाक्तसहायकसहकृतेन आत्मा शारीराख्यः सेन्द्रियो जितः

स्वाधीनः सम्पादितः तस्यान्तःकरणं बन्धुरित्यर्थः (गी० ६।६ भाष्यो०)। संस्कृते-

नान्तः करणेन पश्यन्ति साक्षात् कुर्वन्ति (तत्रैव भाष्यो०) ध्यानसंस्कृतेनान्त करणेन

केचिदुत्तमा योगिनः (तत्रैव म० सू०) आत्मना । २. अन्तःकरणम् यथा - सततं सर्वदा

आत्मानम् अन्तःकरणम् (गी० ६।१० शा० भा० ) । ३. बुद्धिः - यथा- एकान्ते

स्थितः सन् आत्मानं बुद्धिं बुञ्जीत समादध्यात् (गी० ६।१० नीलकण्ठी) ।

यतौ स्थिरीकृतौ चित्तं मनः आत्मा सेन्द्रियं शरीरं येन स यतवितात्मा (गी०

६।१० भाष्योत्कर्षे) यतं सततं चित्तात्मा देहश्च यस्य (गी० ६।१० श्रीधर्याम्) ।

एकान्ते स्थितः सन् आत्मानं बुद्धिं युञ्जीत समादध्यात् (गी० ६।१० नी० क०)।

आत्मना ध्यानसंस्कृतेनान्तःकरणेन केचिद् योगिनः (गी० १३/२४ शा० )

आत्मना मनसा एवात्मानं केचित् पश्यन्ति (तत्रैव श्रीधरी) । आत्मा-बुद्धिः

ध्यानेनात्मनि बुद्धौ पश्यन्ति आत्मानं प्रत्यक् चेतनम् आत्मना ध्यानसंस्कृतेनान्तःकरणेन

केचिद्योगिनः (गी० १३/२४ शां० भा०) । आत्मनि देहादावात्मबुद्धिरूपाया

विपरीतभावनाया निवृत्त्यर्थं निदिध्यासनं विजातीयप्रत्ययतिरस्कार-

पूर्वकसजातीयप्रत्ययप्रवाहीकरणलक्षणं कर्तुं प्रवर्तन्ते (तत्रैव नील०) । ध्यानेनात्मनि

बुद्धौ आत्मानं प्रत्यक् चेतनमात्मना ध्यानसंस्कृतेनान्तःकरणेन पश्यन्ति

साक्षात्कुर्वन्ति (तत्रैव भास्यो०) ४ देह:- आत्मनि देहे आत्मना मनसा एवात्मानं
 
-
 
-