This page has been fully proofread once and needs a second look.

११२
 
शाङ्करवेदान्तकोशः
 
सन् किञ्चिदपि अनात्मानम् आत्मानं वा न चिन्तयेत् न वृत्त्या विषयीकुर्यात्
 

(तत्रैव म० सू० ) ।
 
-
 

 
आत्महन्
 
, आत्महन्
आत्मज्ञानविहीनः । यथा - आत्मानं घ्नन्तीति आत्महनः । के

जनाः येऽविद्वांसः । कथं त आत्मानं नित्यं हिंसन्ति । अविद्यादोषेण विद्यमान-

स्यात्मनस्तिरस्करणात् ( ई० उ० ३ शा० भा०) ।
 
-
 
-
 
आत्मा -

 
आत्मा, आत्मन्
१ . अततीति आत्मा, सातत्यशीलः, आप्नोतीत्यात्मा परमकारणम्,

चिद्रूपः कर्तृत्वादिरहितः परस्मादभिन्नः प्रत्यगात्मेत्यौपनिषदाः स च जीवः ईश्वरः

परमात्मा च । यथा - जीवपरमेश्वरसाधरणं चैतन्यमात्रं विम्बम् तस्यैव बिम्बस्य

अविद्यात्मिकायां मायायां प्रतिबिम्बमीश्वरचैतन्यम्, अन्तःकरणेषु प्रतिबिम्बं जीव-

चैतन्यम् (वे० प० ७ प०) चैतन्यमात्रं बिम्बः परमात्मा अत्र त्रयो वादाः प्रतिविम्बवादः

अवच्छेदवादः आभासवादः । अतः अविद्याद्वारा प्रतिबिम्बितः आभासितः अवच्छिन्नः

चैतन्यमात्ररूपः परमात्मैव जीवः । अविद्यावशात् परमात्मनो भिन्न इव लक्ष्यते ।

अधिकं जीवशब्दे द्रष्टव्यम् । २. चैतन्यविशिष्टं देहमात्मेति लोकायताः । ३. प्राणा

आत्मेत्यन्ये ।४. अन्तःकरणमात्मेत्यपरे !५. मुख्यः प्राण एवात्मेत्यन्ये । ६. पुत्र एवात्मेति

केचित् ।७. क्षणभङ्गुरं संतन्यमानं विज्ञानमात्मेति योगाचारबौद्धाः । ८. देहात्परमेश्वराद्

भिन्नो जीवात्मेति नैयायिकाः । न कर्तेति सांख्या: । क. यथा - ज्ञानाधिकरणमात्मा ।

स द्विविधः- जीवात्मा परमात्मा चेति । तत्राद्यः प्रतिशरीरं भिन्नः विमुर्नित्यश्च कर्ता

भोक्ता च । द्वितीयः ईश्वरः सर्वज्ञः एक एव । (त० सं०) ख. गुणविशिष्ट आत्मा ।

(वात्स्या० ४।१।२१) ग. आत्मा चाप्रत्यक्ष एवेति वैशेषिकः (वै० ८।१।२) एतन्मते

ईश्वर आत्मा अनुमानगम्य एव । तच्च जगतो जन्यत्वम्, यज्जन्यं तत्सकर्तृकं भवति ।

अतो जगतः कर्तेश्वरः । घ. जीवात्मा मानसप्रत्यक्षविषय इति नैयायिकाः । (भा०

प० श्लो० ५०) अत्र च श्रुतिः - आत्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो मन्तव्यो

निदिध्यासितव्यः । (बृ० आ० उप० २।४।४) । ङ. ज्ञानाद् भिन्नो न चाभिन्नो

भिन्नाभिन्नो न कथञ्चन.। ज्ञानं पूर्वापरीभूतं सोऽयमात्मेति कीर्तितम् इति आर्हताः ।

(सर्व० सं० पृ० ६९ आर्ह०) ।
 

 

यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह । यच्चास्य सन्ततोभावस्तेनात्मा परि

कीर्तितः (निरुक्तम्) (क० उ० २।११ शा० भा०) । यद्यप्येक आत्मा सर्वभूतेषु

स्थावरजङ्गमेषु गूढः, तथापि चित्तोपाधिविशेषतारतम्यादात्मनः कूटस्थनित्यस्यै-