This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
१११
 
जानामीत्याद्यंनुभवाच्चाज्ञानोपहितं चैतन्यमात्मेति वदति । (तत्रैव ४३) अपरो बौद्ध:-

असदेवेदमग्र आसीद् इत्यादिश्रुतेः सुषुप्तौ सर्वाभावादहं सुषुप्तौ नासमित्युत्थितस्य

स्वाभावपरामर्शविषयानुभवाच्च शून्यमात्मेति वदति । एतेषां पुत्रादीनामनात्मत्वमुच्यते ।

एतैरतिप्रकृतादिवादिभिरुक्तेषु श्रुतियुक्त्यनुभवाभासेषु पूर्वपूर्वोक्तश्रुतियुक्त्यनुभवा-

भासानामुत्तरोत्तरश्रुतियुक्त्यनुभवाभासैरात्मत्वबाधदर्शनात् पुत्रादीनामनात्मत्वं स्पष्टमेव

(तत्रैव ४५) । किञ्च प्रत्यगस्थूलोऽचक्षुरप्राणोऽमना अकर्ता चैतन्यं चिन्मात्रं सदित्यादि-

प्रबलश्रुतिविरोधादस्य पुत्रादिशून्यपर्यन्तस्य जडस्य चैतन्यभास्यत्वेन घटादिवदनित्यत्वादहं

ब्रह्मेति विद्वदनुभवप्राबल्याच्च तत्तच्छ्रुतियुक्त्यनुभवाभासानां बाधितत्वादपि पुत्रादिशून्य-

पर्यन्तमखिलमनात्मैव ।अतस्तत्तद्भासकं नित्यशुद्धबुद्धमुक्तसत्यस्वभावं प्रत्यक्चैतन्य-

मेवात्मवस्तु इति वेदान्तविद्वदनुभवः । स चात्मा जीवात्मपरमात्मरूप एक एवाभिन्नः

पारमार्थिकः । अविद्यावशाज्जीवात्मपरमात्मनोर्भेदप्रतीतिरिति अद्वैतवेदान्तिनः । विशिष्टा-

द्वैतद्वैताद्वैतशुद्धाद्वैतादिवादिनः वैष्णवाः जीवात्मपरमात्मनोर्भेदं वदन्ति । ममैवांशो

जीवलोके जीवभूतः सनातनः (गी० १३।७) इति श्रीमद्भगवद्गीतोक्तिमुदाहरन्ति ।

ब्रह्मणो जीवस्य च भेदं पोषयितुम् - भोक्ता भोग्यं प्रेरयितारं च मत्वा सर्वं प्रोक्तं

त्रिविधं ब्रह्म एतत् (श्वेता० उ० १ ।१२) उपस्थापयन्ति । स कारणं करणाधिपाधिपः

(श्वेता० उ० ६।९) य आत्मानमन्तरो यमयति स आत्मा अन्तर्याम्यमृतः । (बृ० आ०

उप० ३।६।३) ज्ञाज्ञौ द्वावजानीशौ (श्वेता० उप० १।९) इति श्रुतीरुपस्थापयन्ति ।

जीवात्मपरमात्मनोरभेदे - तत्त्वमसि (छा० उ० ६।१६।३) एकमेवाद्वितीयं ब्रह्म

(तत्रैव ६।२।१) सदेवेदमग्र आसीत् (तत्रैव) । इत्यादि श्रुतयः प्रमाणम् ।
 
B
 

 
आत्मयोगः – मुक्तिः । तदात्मना , आत्मयोग
मुक्तिः । तदात्मना योग
स्तद्योगः तद्भावापत्तिः मुक्तिरित्यर्थः ।

( ब्र० सू० १/१/१९ शा० भा० )
 

 
आत्मसंस्थम् - , आत्मसंस्थ
आत्मनि सम्यक् प्रकारेण स्थितम् । शनैः शनैर्न सहसोपरमेद्

उपरतिं कुर्यात् । कया बुद्ध्या किं विशिष्टया धृत्या धैर्येण गृहीतया धैर्येण युक्तयेत्यर्थः ।

आत्मनि संस्थितमात्मैव सर्वं न ततोऽन्यत् किञ्चिदस्तीत्येवमात्मसंस्थं मनः कृत्वा न .

किञ्चिदपि चिन्तयेत् । एष योगस्य परमोऽवधिः (गी० ६।२५ शा० भा०) ।

तदेतदाह आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् इति । आत्मनि निरुपाधिके

प्रतीचि संस्था समाप्तिर्यस्य तदात्मसंस्थं सर्वप्रकारवृत्तिशून्यं स्वभावसिद्ध्यात्मा-

कारमात्रविशिष्टं मनः कृत्वा, धृतिगृहीतया विवेकबुद्ध्या सम्पाद्यासम्प्रज्ञातसमाधिस्थः